Skip to main content
Search
ST
Śatakatrayam • Chapter 01

Canto 1

नीतिशतकम्

Canto 1 of Śatakatrayam.

Total: 109 Verses • Citations: ST 1.1–109 • 1 Lexicon Terms • Page 1 of 4 (Verses 30 shown)
ST 1.1 अनुष्टुप्
दिक्-कालाद्यनवच्छिन्नानन्त-चिन्-मात्र-मूर्तये । स्वानुभूत्य्-एक-मानाय नमः शान्ताय तेजसे ॥
ST 1.2 अनुष्टुप्
बोद्धारो मत्सर-ग्रस्ताः प्रभवः स्मय-दूषिताः ।अबोधोपहताः चान्ये जीर्णमङ्गे सुभाषितम् ॥
ST 1.3 उद्गीति
अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः । ज्ञान-लव-दुर्विदग्धं ब्रह्मापि तं नरं न रञ्जयति ॥
ST 1.4 पृथ्वी
प्रसह्य मणिमुद्धरेन्मकर-वक्त्र-दंष्ट्रान्तरात्समुद्रमपि सन्तरेत्प्रचलदूर्मि-मालाकुलम् । भुजङ्गमपि कोपितं शिरसि पुष्पवद्धारयेत्न तु प्रतिनिविष्ट-मूर्ख-जन-चित्तमाराधयेत् ॥
ST 1.5 पृथ्वी
लभेत सिकतासु तैलमपि यत्नतः पीडयन्पिबेच्च मृग-तृष्णिकासु सलिलं पिपासार्दितः । कदाचिदपि पर्यटन् शशविषाणमासादयेन्नतु प्रतिनिविष्ट-मूर्ख-जन-चित्तमाराधयेत् ॥
ST 1.6 शार्दूलविक्रीडितम्
व्यालं बाल-मृणाल-तन्तुभिरसौ रोद्धुं समुज्जृम्भते छेत्तुं वज्र-मणिं शिरीष-कुसुम-प्रान्तेन सन्नह्यति । माधुर्यं मधु-बिन्दुना रचयितुं क्षारामुधेरीहते नेतुं वाञ्छन्ति यः खलान्पथि सतां सूक्तैः सुधा-स्यन्दिभिः ॥
ST 1.7 उपेन्द्रवज्रा
स्वायत्तमेकान्त-गुणं विधात्रा विनिर्मितं छादनमज्ञतायाः । विशेषतः सर्व-विदां समाजे विभूषणं मौनमपण्डितानाम् ॥
ST 1.8 शिखरिणी
यदा किञ्चिज्-ज्ञोऽहं द्विप इव मदान्धः समभवं तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः । यदा किञ्चित्किञ्चिद्बुधजन-सकाशादवगतं तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥
ST 1.9 हरिणी
कृमि-कुल-चितं लाला-क्लिन्नं विगन्धि-जुगुप्सितं निरुपम-रसं प्रीत्या खादन्नरास्थि निरामिषम् । सुरपतिमपि श्वा पार्श्वस्थं विलोक्य न शङ्कते न हि गणयति क्षुद्रो जन्तुः परिग्रह-फल्गुताम् ॥
ST 1.10 शिखरिणी
शिरः शार्वं स्वर्गात्पशुपति-शिरस्तः क्षितिधरं म्हीध्रादुत्तुङ्गादवनिमवनेश्चापि जलधिम् । अधोऽधो गङ्गेयं पदमुपगता स्तोकमथवाविवेक-भ्रष्टानां भवति विनिपातः शतमुखः ॥
ST 1.11 शार्दूलविक्रीडितम्
शक्यो वारयितुं जलेन हुतभुक्च्छत्रेण सूर्यातपो नागेन्द्रो निशिताग्कुशेन समदो दण्डेन गो-गर्दभौ । व्याधिर्भेषज-सङ्ग्रहैश्च विविधैर्मन्त्र-प्रयोगैर्विषं सर्वस्यौषधमस्ति शास्त्र-विहितं मूर्खस्य नस्त्यौषधिम् ॥
ST 1.12 उपजातिः
साहित्य-सङ्गीत-कला-विहीनः साक्षात्पशुः पुच्छ-विषाण-हीनः । तृणं न खादन्नपि जीवमानस्तद्भाग-धेयं परमं पशूनाम् ॥
ST 1.13 उपजातिः
येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः । ते मर्त्य-लोके भुवि भार-भूता मनुष्य-रूपेण मृगाश्चरन्ति ॥
ST 1.14 अनुष्टुप्
वरं पर्वत-दुर्गेषु भ्रान्तं वनचरैः सह । न मूर्ख-जन-सम्पर्कः सुरेन्द्र-भवनेष्वपि ॥
ST 1.15 शार्दूलविक्रीडितम्
शास्त्रोपस्कृत-शब्द-सुन्दर-गिरः शिष्य-प्रदेयागमा विख्याताः कवयो वसन्ति विषये यस्य प्रभोर्निर्धनाः । तज्-जाड्यं वसुधादिपस्य कवयस्त्वर्थं विनापीश्वराः कुत्स्याः स्युः कुपरीक्षका हि मणयो यैरर्घतः पातिताः ॥
ST 1.16 शार्दूलविक्रीडितम्
हर्तुर्याति न गोचरं किमपि शं पुष्णाति यत्सर्वदाऽप्यर्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं पराम् । कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनं येषां तान्प्रति मानमुज्झत नृपाः कस्तैः सह स्पर्धते ॥
ST 1.17 मालिनी
अधिगत-परमार्थान्पण्डितान्मावमंस्थास्तृणमिव लघु लक्ष्मीर्नैव तान्संरुणद्धि ।अभिनव-मद-लेखा-श्याम-गण्ड-स्थलानां न भवति बिसतन्तुर्वारणं वारणानाम् ॥
ST 1.18 वसन्ततिलका
अम्भोजिनी-वन-विहार-विलासमेव हंसस्य हन्ति नितरां कुपितो विधाता । न त्वस्य दुग्ध-जल-भेद-विधौ प्रसिद्धां वैदग्धी-कीर्तिमपहर्तुमसौ समर्थः ॥
ST 1.19 शार्दूलविक्रीडितम्
केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः । वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते क्षीयन्ते खलु भूषणानि सततं वाग्-भूषणं भूषणम् ॥
ST 1.20 शार्दूलविक्रीडितम्
विद्या नाम नरस्य रूपमधिकं प्रच्छन्न-गुप्तं धनं विद्या भोगकरी यशः-सुखकरी विद्या गुरूणां गुरुः । विद्या बन्धुजनो विदेश-गमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्या-विहीनः पशुः ॥
ST 1.21 शार्दूलविक्रीडितम्
क्षान्तिश्चेत्कवचेन किं किमरिभिः क्रोधोऽस्ति चेद्देहिनां ज्ञातिश्चेदनलेन किं यदि सुहृद्दिव्यौषधं किं फलम् । किं सर्पैर्यदि दुर्जनाः किमु धनैर्विद्याऽनवद्या यदि व्रीडा चेत्किमु भूषणैः सुकविता यद्यस्ति राज्येन किम् ॥
ST 1.22 शार्दूलविक्रीडितम्
दाक्षिण्यं स्वजने दया परिजने शाठ्यं सदा दुर्जने प्रीतिः साधुजने नयो नृप-जने विद्वज्-जने चार्जवम् । शौर्यं शत्रु-जने क्षमा गुरु-जने कान्ता-जने धृष्टता ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोक-स्थितिः ॥
ST 1.23 वसन्ततिलका
जाड्यं धियो हरति सिञ्चति वाचि सत्यं मानोन्नतिं दिशति पापमपाकरोति । चेतः प्रसादयति दिक्षु तनोति कीर्तिं सत्-सङ्गतिः कथय किं न करोति पुंसाम् ॥
ST 1.24 अनुष्टुप्
जयन्ति ते सुकृतिनो रस-सिद्धाः कवीश्वराः । नास्ति येषां यशःकाये जरा-मरण-जं भयम् ॥
ST 1.25 शार्दूलविक्रीडितम्
सूनुः सच्-चरितः सती प्रियतमा स्वामी प्रसादोन्मुखः स्निग्धं मित्रमवञ्चकः परिजनो निःक्लेश-लेशं मनः ।आकारो रुचिरः स्थिरश्च विभवो विद्यावदातं मुखं तुष्टे विष्टप-कष्ट-हारिणि हरौ सम्प्राप्यते देहिना ॥
ST 1.26 स्रग्धरा
प्राणाघातान्निवृत्तिः पर-धन-हरणे संयमः सत्य-वाक्यं काले शक्त्या प्रदानं युवति-जन-कथा-मूक-भावः परेषाम् । तृष्णा-स्रोतो विभङ्गो गुरुषु च विनयः सर्व-भूतानुकम्पा सामान्यः सर्व-शास्त्रेष्वनुपहत-विधिः श्रेयसामेष पन्थाः ॥
ST 1.27 वसन्ततिलका
प्रारभ्यते न खलु विघ्न-भयेन नीचैः प्रारभ्य विघ्न-विहता विरमन्ति मध्याः । विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तम-जना न परित्यजन्ति ॥
ST 1.28 शिखरिणी
असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यः कृश-धनः प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम् । विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां सतां केनोद्दिष्टं विषममसिधारा-व्रतमिदम् ॥
ST 1.29 शार्दूलविक्रीडितम्
क्षुत्-क्षामोऽपि जरा-कृशोऽपि शिथिल-प्राणोऽपि कष्टां दशामापन्नोऽपि विपन्न-दीधितिरिति प्राणेषु नश्यत्स्वपि । मत्तेभेन्द्र-विभिन्न-कुम्भ-पिशित-ग्रासैक-बद्ध-स्पृहः किं जीर्णं तृणमत्ति मान-महतामग्रेसरः केसरी ॥
ST 1.30 शार्दूलविक्रीडितम्
स्वल्प-स्नायु-वसावशेष-मलिनं निर्मांसमप्यस्थि गोः श्वा लब्ध्वा परितोषमेति न तु तत्तस्य क्षुधा-शान्तये । सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं सर्वः कृच्छ्र-गतोऽपि वाञ्छन्ति जनः सत्त्वानुरूपं फलम् ॥
Full Table of Contents Next (Ch. 2) →