Skip to main content
Search
AS
Abhijñānaśākuntalam • Chapter 07

Canto 7

सप्तमोऽङ्कः

Canto 7 of Abhijñānaśākuntalam.

Total: 197 Verses • Citations: AS 7.1–197 • 1 Lexicon Terms • Page 2 of 7 (Verses 30 shown)
एतावानेव शतक्रतोरायुष्मतश्च विशेषः ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
मातले कतमस्मिन्प्रदेशे मारीचाश्रमः ।
व्याख्या / Traditional Commentary & Notes
sp: मातलिः
AS 7.34 शार्दूलविक्रीडितम्
वल्मीकार्धनिमग्नमूर्तिरुरसा संदष्टसर्पत्वचा कण्ठे जीर्णलताप्रतानवलयेनात्यर्थसंपीडितः ।अंसव्यापि शकुन्तनीडनिचितं बिभ्रज्जटामण्डलम् यत्र स्थाणुरिवाचलो मुनिरसावभ्यर्कबिम्बं स्थितः ॥
व्याख्या / Traditional Commentary & Notes
sp: राजा
नमस्ते कष्टतपसे ।
व्याख्या / Traditional Commentary & Notes
sp: मातलिः
(संयतप्रग्रहं रथं कृत्वा)एतावदितिपरिवर्धितमन्दारवृक्षं प्रजापतेराश्रमं प्रविष्टौ स्वः ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
स्वर्गादधिकतरं निर्वृतिस्थानममृतह्रदमिवावगाढोऽस्मि ।
व्याख्या / Traditional Commentary & Notes
sp: मातलिः
(रथं स्थापयित्वा)अवतरत्वायुष्मान् ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
(अवतीर्य) मातले भवान्कथमिदानीम् ।
व्याख्या / Traditional Commentary & Notes
sp: मातलिः
संयन्त्रितो मया रथः । वयमप्यवतरामः ।
(तथा कृत्वा)इत आयुष्मन् । (परिक्रम्य) दृश्यन्तामत्रभवताम् ऋषीणां तपोवनभूमयः ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
AS 7.43 शार्दूलविक्रीडितम्
प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने तोये काञ्चनपद्मरेणुकपिशे धर्माभिषेकक्रिया । ध्यानं रत्नशिलातलेषु विबुधस्त्रीसंनिधौ संयमो यत्काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी ॥
व्याख्या / Traditional Commentary & Notes
sp: मातलि
उत्सर्पिणी खलु महतां प्रार्थना । (परिक्रम्य ।आकाशे)अये वृद्धशाकल्य किमनुतिष्ठति भगवान्मारीचः । किं ब्रवीषि । दाक्षायण्या प्रतिव्रतार्धमधिकृत्य पृष्टस्तस्यै महर्षिपत्नीसहितायै कथयतीति ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
(कर्णं दत्त्वा)अये प्रतिपाल्यावसरः खलु प्रस्तावः ।
व्याख्या / Traditional Commentary & Notes
sp: मातलिः
(राजानमवलोक्य)अस्मिन्नशोकवृक्षमूले तावदास्तामायुष्मान्यावत्त्वामिन्द्रगुरवे निवेदयितुमन्तरान्वेषी भवामि ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
यथा भवान्मन्यते (इति स्थितः)
व्याख्या / Traditional Commentary & Notes
sp: मातलिः
आयुष्मन्साधयाम्यहम् । (इति निष्क्रान्तः)
व्याख्या / Traditional Commentary & Notes
sp: राजा
AS 7.50 अनुष्टुप्
मनोरथाय नाशंसे किं बाहो स्पन्दसे वृथा । पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते ॥
मा खलु चापलं कुरु । कथं गत एवात्मनः प्रकृतिम् ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
(कर्णं दत्त्वा)अभूमिरियमविनयस्य । को नु खल्वेष निषिध्यते । (शब्दानुसारेणावलोक्य । सविस्मयम्)अये को नु खल्वयमनुबध्यमानस्तपस्विनीभ्यामबालसत्त्वो बालः ।
AS 7.54 अनुष्टुप्
अर्धपीतस्तनं मातुरामर्दक्लिष्टकेसरम् । प्रक्रीडितुं सिंहशिशुं बलात्कारेण कर्षति ॥
(ततः प्रविशति यथानिर्दिष्टकर्मा तपस्विनीभ्यां बालः)
व्याख्या / Traditional Commentary & Notes
sp: बाल
जृम्भस्व सिंह दन्तांस्ते गणयिष्ये ।
व्याख्या / Traditional Commentary & Notes
sp: प्रथमा
अविनीत किं नोऽपत्यनिर्विशेषाणि सत्त्वानि विकरोषि । हन्त वर्धते ते संरम्भः । स्थाने खलु ऋषिजनेन सर्वदमन इति कृतनामधेयोऽसि ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
किं नु खलु बालेऽस्मिन्नौरस इव पुत्रे स्निह्यति मे मनः । नूनमनपत्यता मां वत्सलयति ।
व्याख्या / Traditional Commentary & Notes
sp: द्वितीया
एषा खलु केसरिणी त्वां लङ्घयति यद्यस्याः पुत्रकं न मुञ्चसि ।
व्याख्या / Traditional Commentary & Notes
sp: बाल
(सस्मितम्)अहो बलीयः खलु भीतोऽस्मि । (इत्यधरं दर्शयति )
← Previous (Ch. 6) Full Table of Contents