Skip to main content
Search
AS
Abhijñānaśākuntalam • Chapter 07

Canto 7

सप्तमोऽङ्कः

Canto 7 of Abhijñānaśākuntalam.

Total: 197 Verses • Citations: AS 7.1–197 • 1 Lexicon Terms • Page 4 of 7 (Verses 30 shown)
(सदृष्टिक्षेपम्) कुत्र वा मम माता ।
व्याख्या / Traditional Commentary & Notes
sp: उभे
नामसादृश्येन वञ्चितो मातृचत्सलः ।
व्याख्या / Traditional Commentary & Notes
sp: द्वितीया
वत्स अस्य वृत्तिकामयूरस्य रम्यत्वं पश्येति भणितोऽसि ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
(आत्मगतम्) किं वा शकुन्तला इत्यस्या मातुराख्या । सन्ति पुनर्नामधेयसादृश्यानि ।अपि नाम मृगतृष्टिकेव नाममात्रप्रस्तावो मे विषादाय कल्पते ।
व्याख्या / Traditional Commentary & Notes
sp: बाल
मातः रोचते म एष भद्रमयूरः । (इति क्रीडनकमादत्ते)
व्याख्या / Traditional Commentary & Notes
sp: प्रथमा
(विलोक्य । स उद्वेगम्)अहो रक्षाकरण्डकमस्य मणिबन्धे न दृश्यते ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
अलमावेगेन । नन्विदमस्य सिंहशावविमर्दात्परिभ्रष्टम् । (इत्यादातुमिच्छति)
उभे मा खल्वेतदवलम्ब्य कथम् । गृहीतमनेन ।
(इति विस्मयादुरोनिहितहस्ते परस्परमवलोकयतः)
व्याख्या / Traditional Commentary & Notes
sp: राजा
किमर्थं प्रतिषिद्धाः स्मः ।
व्याख्या / Traditional Commentary & Notes
sp: प्रथमा
शृणोतु महाराजः ।एषापराजिता नामौषधिरस्य जातकर्मसमये भगवता मारीचेन दत्ता ।
एतां किल मातापितरावात्मानं च वर्जयित्वापरो भूमिपतितां न गृह्णाति ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
अथ गृह्णाति ।
व्याख्या / Traditional Commentary & Notes
sp: प्रथमा
ततस्तं सर्पो भूत्वा दशति ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
भवतीभ्यां कदाचिदस्याः प्रत्यक्षीकृता विक्रिया ।
व्याख्या / Traditional Commentary & Notes
sp: उभे
अनेकशः ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
(सहर्षम् ।आत्मगतम्) कथमिव संपूर्णमपि मे मनोरथं नाभिनन्दामि ।
व्याख्या / Traditional Commentary & Notes
sp: द्वितीया
सुव्रते एहि ।इमं वृत्तान्तं नियमव्यापृतायै शकुन्तलायै निवेदयावः । (इति निष्क्रान्ते)
व्याख्या / Traditional Commentary & Notes
sp: बाल
मुञ्च माम् । यावन्मातुः सकाशं गमिष्यामि ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
पुत्रक मया सह एव मातरमभिनन्दिष्यसि ।
व्याख्या / Traditional Commentary & Notes
sp: बाल
मम खलु तातो दुष्यन्तः । न त्वम् ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
(सस्मितमेष विवाद एव प्रत्याययति (ततः प्रविशत्येकवेणीधरा शकुन्तला)
व्याख्या / Traditional Commentary & Notes
sp: शकुन्तला
विकारकालेऽपि प्रकृतिस्थां सर्वदमनस्यौषधिं श्रुत्वा न मे आशासीदात्मनो भागधेयेषु ।
अथ वा यथा सानुमत्याख्यातं तथा संभाव्यत एतत् ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
(शकुन्तलां विलोक्य)अये सेयमत्रभवती शकुन्तला यैषा
AS 7.116 औपच्छन्दसिक
वसने परिधूसरे वसाना नियमक्षाममुखी धृतैकवेणिः ।अतिनिष्करुणस्य शुद्धशीला मम दीर्घं विरहव्रतं बिभर्ति ॥
व्याख्या / Traditional Commentary & Notes
sp: शकुन्तला
(पश्चात्तापविवर्णं राजानं दृष्ट्वा) न खल्वार्यपुत्र इव । ततः क एष इदानीं कृतरक्षामङ्गलं दारकं मे गात्रसंसर्गेण दूषयति ।
व्याख्या / Traditional Commentary & Notes
sp: बाल
(मातरमुपेत्य) मातः एष कोऽपि पुरुषो मां पुत्र इत्यालिङ्गति ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
प्रिये क्रौर्यमपि मे त्वयि प्रयुक्तमनुकूलपरिणामं संवृत्तं यदहमिदानीं त्वया प्रत्यभिज्ञातमात्मानं पश्यामि ।
व्याख्या / Traditional Commentary & Notes
sp: शकुन्तला
(आत्मगतम्) हृदय समाश्वसिहि समाश्वसिहि । परित्यक्तमत्सरेणानुकम्पितास्मि दैवेन ।आर्यपुत्रः खल्वेषः ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
← Previous (Ch. 6) Full Table of Contents