Skip to main content
Search
AS
Abhijñānaśākuntalam • Chapter 07

Canto 7

सप्तमोऽङ्कः

Canto 7 of Abhijñānaśākuntalam.

Total: 197 Verses • Citations: AS 7.1–197 • 1 Lexicon Terms • Page 6 of 7 (Verses 30 shown)
AS 7.152 शार्दूलविक्रीडितम्
प्राहुर्द्वादशधा स्थितस्य मुनयो यत्तेजसः कारणम् भर्तारं भुवनत्रयस्य सुषुवे यद्यज्ञभागेश्वरम् । यस्मिन्नात्मभवः परोऽपि पुरुषश्चक्रे भवायास्पदम् द्वन्द्वं दक्षमरीचिसंभवमिदं तत्स्रष्टुरेकान्तरम् ॥
व्याख्या / Traditional Commentary & Notes
sp: मातलि
अथ किम् ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
(उपगम्योभाभ्यामपि वासवनियोज्यो दुष्यन्तः प्रणमति ।
व्याख्या / Traditional Commentary & Notes
sp: मारीच
वत्स चिरं जीव । पृथिवीं पालय ।
व्याख्या / Traditional Commentary & Notes
sp: अदितिः
वत्स अप्रतिरथो भव ।
व्याख्या / Traditional Commentary & Notes
sp: शकुन्तला
दारकसहिता वां पादवदनं करोमि ।
व्याख्या / Traditional Commentary & Notes
sp: मारीच
AS 7.159 अनुष्टुप्
आखण्डलसमो भर्ता जयन्तप्रतिमः सुतः ।आशीरन्या न ते योग्या पौलोमीसदृशी भव ॥
व्याख्या / Traditional Commentary & Notes
sp: अदिति
जाते भर्तुर्बहुमता भव ।अयं च दीर्घायुर्वत्सक उभयकुलनन्दनो भवतु ।उपविशत । (सर्वे प्रजापतिमभित उपविशन्ति)
व्याख्या / Traditional Commentary & Notes
sp: मारीच
AS 7.162 अनुष्टुप्
दिष्ट्या शकुन्तला साध्वी सदपत्यमिदं भवान् । श्रद्धा वित्तं विधिश्चेति त्रितयं तत्समागतम् ॥
व्याख्या / Traditional Commentary & Notes
sp: राजा
भगवन् । प्रागभिप्रेतसिद्धिः । पश्चाद्दर्शनम् ।अतोऽपूर्वः खलु वोऽनुग्रहः । कुतः ।
AS 7.164 वंशस्थम्
उदेति पूर्वं कुसुमं ततः फलं घनोदयः प्राक्तदनन्तरं पयः । निमित्तनैमित्तिकयोरयं क्रमस्तव प्रसादस्य पुरस्तु संपदः ॥
व्याख्या / Traditional Commentary & Notes
sp: मातलिः
एवं विधातारः प्रसीदन्ति ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
भगवन्निमामाज्ञाकरीं वो गान्धर्वेण विवाहविधिनोपयम्य कस्यचित्कालस्य बन्धुभिरानीतां स्मृतिशैथिल्यात्प्रत्यादिशन्नपराद्धोऽस्मि तत्रभवतो युष्मत्सगोत्रस्य कण्वस्य । पश्चादङ्गुलीयकदर्शनादूढपूर्वा तद्दुहितरमवगतोऽहम् । तच्चित्रमिव मे प्रतिभाति ।
AS 7.167 उपजातिः
यथा गजो नेति समक्षरूपे तस्मिन्नपक्रामति संशयः स्यात् । पदानि दृष्ट्वा तु भवेत्प्रतीतिस्तथाविधो मे मनसो विकारः ॥
व्याख्या / Traditional Commentary & Notes
sp: मारीच
वत्स अलमात्मापराधशङ्का । संमोहोऽपि त्वय्यनुपपन्नः । श्रूयताम् ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
अवहितोऽस्मि ।
व्याख्या / Traditional Commentary & Notes
sp: मारीच
यदा एवाप्सरस्तीर्थावतरणात्प्रत्यक्षवैक्लव्यां शकुन्तलामादाय मेनका दाक्षायणीमुपगता तदा एव ध्यानादवगतोऽस्मि दुर्वाससः शापादियं तपस्विनी सहधर्मचारिणीत्वया प्रत्यादिष्टा नान्यथेति । स चायमङ्गुलीयकदर्शनावसानः ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
(सोच्छ्वासम्)एष वचनीयान्मुक्तोऽस्मि ।
व्याख्या / Traditional Commentary & Notes
sp: शकुन्तला
(स्वगतम्) दिष्ट्याकारणप्रत्यादेशी नार्यपुत्रः । न पुनः शप्तमात्मानं स्मरामि ।अथवा प्राप्तो मया स हि शापो विरहशून्यहृदयया न विदितः ।अतः सखीभ्यां संदिष्टास्मि भर्तुरङ्गुलीयकं दर्शयितव्यमिति ।
व्याख्या / Traditional Commentary & Notes
sp: मारीच
वत्से चरितार्थासि । तदिदानीं सहधर्मचारिणं प्रति न त्वया मन्युः कार्यः । पश्य ।
AS 7.174 वसन्ततिलका
शापादसि प्रतिहता स्मृतिरोधरूक्षे भर्तर्यपेततमसि प्रभुता तव एव । छाया न मूर्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाशा ॥
व्याख्या / Traditional Commentary & Notes
sp: राजा
यथा आह भगवान् ।
व्याख्या / Traditional Commentary & Notes
sp: मारीच
वत्स कच्चिदभिनन्दितस्त्वया विधिवदस्माभिरनुष्ठितजातकर्मा पुत्र एष शाकुन्तलेयः ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
भगवन्नत्र खलु मे वंशप्रतिष्ठा । (इति बालं हस्तेन गृह्णाति)
व्याख्या / Traditional Commentary & Notes
sp: मारीच
तथाभाविनमेनं चक्रवर्तिनमवगच्छतु भवान् । पश्य ।
AS 7.179 शिखरिणी
रथेनानुद्धातस्तिमितगतिना तीर्णजलधिः पुरा सप्तद्वीपां जयति वसुधामप्रतिरथः ।इहायं सत्त्वानां प्रसभदमनात्सर्वदमनः पुनर्यास्यत्याख्यां भरत इल्लोकस्य भरणात् ॥
व्याख्या / Traditional Commentary & Notes
sp: राजा
भगवता कृतसंस्कारे सर्वमस्मिन्वयमाशास्महे ।
व्याख्या / Traditional Commentary & Notes
sp: अदिति
← Previous (Ch. 6) Full Table of Contents