(ततः प्रविशत्याकाशयानेन रथाधिरूढो राजा मातलिश्च)
मातले अनुष्ठितनिदेशोऽपि मघवतः सत्क्रियाविशेषादनुपयुक्तमिवात्मानं समर्थये ।
(सस्मितम्)आयुष्मन्नुभयमप्यपरितोषं समर्थये ।
प्रथमोपकृतं मरुत्वतः प्रतिपत्त्या लघु मन्यते भवान् । गणयत्यवदानविस्मितो भवतः सोऽपि न सत्क्रियागुणान् ॥
मातले मा मैवम् । स खलु मनोरथानामप्यभूमिर्विसर्जनावसरसत्कारः । मम हि दिवौकसां समक्षमर्धासनोपवेशितस्य ।
अन्तर्गतप्रार्थनमन्तिकस्थं जयन्तमुद्वीक्ष्य हृतस्मितेन ।आमृष्टवक्षोहरिचन्दनाङ्का मन्दारमाला हरिणा पिनद्धा ॥
किमिव नामायुष्मानमरेश्वरान्नार्हति । पश्य ।
सुखपरस्य हरेरुभयैः कृतं त्रिदिवमुद्धृतदानवकण्टकम् । तव शरैरधुना नतपर्वभिः पुरुषकेसरिणश्च पुरा नखैः ॥
अत्र खलु शतक्रतोरेव महिमा स्तुत्यः ।
सिध्यन्ति कर्मसु महत्वपि यन्नियोज्याः संभावनागुणमवेहि तमीश्वराणाम् । किं वाभविष्यदरुणस्तमसां विभेत्ता तं चेत्सहस्रकिरणो धुरि नाकरिष्यत् ॥
सदृशं तव एतत् । (स्तोकमन्तरमतीत्य)आयुष्मन्नितः पश्य नाकपृष्ठप्रतिष्ठितस्य सौभाग्यमात्मयशसः ।
विच्छित्तिशेषैः सुरसुन्दरीणां वर्णैरमी कल्पलतांशुकेषु । विचिन्त्य गीतक्षममर्थजातं दिवौकसस्त्वच्चरितं लिखन्ति ॥
मातले असुरसंप्रहारोत्सुकेन पूर्वेद्युर्दिवमधिरोहता मया न लक्षितः स्वर्गमार्गः । कतमस्मिन्मरुतां पथि वर्तामहे ।
मातलि
त्रिस्रोतसं वहति यो गगनप्रतिष्ठाम् ज्योतींषि वर्तयति च प्रविभक्तरश्मिः । तस्य द्वितीयहरिविक्रमनिस्तमस्कम् वायोरिमं परिवहस्य वदन्ति मार्गम् ॥
मातले अतः खलु सबाह्यान्तःकरणो ममान्तरात्मा प्रसीदति । (रथाङ्गमवलोक्य) मेघपदवीमवतीर्णौ स्वः ।
कथमवगम्यते ।
अयमरविवरेभ्यश्चातकैर्निष्पतद्भिर्हरिभिरचिरभासां तेजसा चानुलिप्तैः ।
गतमुपरि घनानां वारिगर्भोदराणाम् ॥
क्षणादायुष्मान्स्वाधिकारभूमौ वर्तिष्यते ।
(अधोऽवलोक्य) मातले वेगावतरणादाश्चर्यदर्शनः संलक्ष्यते मनुष्यलोकः । तथा हि ।
शैलानामवरोहतीव शिखरादुन्मज्जतां मेदिनी पर्णाभ्यन्तरलीनतां विजहति स्कन्धोदयात्पादपाः । संतानैस्तनुभावनष्टसलिला व्यक्तिं भजन्त्यापगाः केनाप्युत्क्षिपतेव पष्य भुवनं मत्पार्श्वमानीयते ॥
साधु दृष्टम् । (सबहुमानमवलोक्य)अहो उदाररमणीया पृथिवी ।
मातले कतमोऽयं पूर्वापरसमुद्रावगाढः कनकरसनिस्यन्दी सांध्य मेघपरिघः सानुमानालोक्यते ।
आयुष्मन्नेष खलु हेमकूटो नाम किं पुरुषपर्वतस्तपःसंसिद्धिक्षेत्रम् । पश्य ।
स्वायंभुवान्मरीचेर्यः प्रबभूव प्रजापतिः । सुरासुरगुरुः सोऽत्र सपत्नीकस्तपस्यति ॥
तेन ह्यनतिक्रमणीयानि श्रेयांसि । प्रदक्षिणीकृत्य भगवन्तं गन्तुमिच्छामि ।
प्रथमः कल्पः । (नाट्येनावतीर्णौ)
(सविस्मयम्)
उपोढशब्दा न रथाङ्गनेमयः प्रवर्तमानं न च दृश्यते रजः ।अभूतलस्पर्शनतयानिरुद्धतस्तवावतीर्णोऽपि रथो न लक्ष्यते ॥