Skip to main content
Search
AS
Abhijñānaśākuntalam • Chapter 03

Canto 3

तृतीयोऽङ्कः

Canto 3 of Abhijñānaśākuntalam.

Total: 134 Verses • Citations: AS 3.1–134 • 1 Lexicon Terms • Page 4 of 5 (Verses 30 shown)
(प्रियंवदामवलोक्य) हला किमन्तःपुरविरहपर्युत्सुकस्य राजर्षेरुपरोधेन ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
AS 3.93 द्रुतविलम्बितम्
इदमनन्यपरायणमन्यथा हृदयसंनिहिते हृदयं मम । यदि समर्थयसे मदिरेक्षणे मदनबाणहतोऽस्मि हतः पुनः ॥
व्याख्या / Traditional Commentary & Notes
sp: अन
वयस्य बहुवल्लभा राजानः श्रूयन्ते । यथा नौ प्रियसखी बन्धुजनशोचनीया न भवति तथा निर्वाहय ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
AS 3.96 अनुष्टुप्
परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे । समुद्ररसना चोर्वी सखी च युवयोरियम् ॥
व्याख्या / Traditional Commentary & Notes
sp: उभे
निर्वृते स्वः ।
व्याख्या / Traditional Commentary & Notes
sp: प्रि
(सदृष्टिक्षेपम्)अनसूये एष इतोदत्तदृष्टिरुत्सुको मृगपोतको मातरमन्विष्यति ।एहि । संयोजयाव एनम् । (इत्युभे प्रस्थिते)
व्याख्या / Traditional Commentary & Notes
sp: शकु
हला अशरणास्मि ।अन्यतरा युवयोरागच्छतु ।
व्याख्या / Traditional Commentary & Notes
sp: उभे
पृथिव्याः यः शरणं स तव समीपे वर्तते । (इति निष्क्रान्ते)
व्याख्या / Traditional Commentary & Notes
sp: शकु
कथं गते एव ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
अलमावेगेन । नन्वयमाराधयिता जनस्तव समीपे वर्तते ।
AS 3.103 वसन्ततिलका
किं शीतलैः क्लमविनोदिभिरार्द्रवातान् सञ्चारयामि नलिनीदलतालवृन्तैः ।अङ्के निधाय करभोरु यथासुखं ते संवाहयामि चरणावुत पद्मतांरौ ॥
व्याख्या / Traditional Commentary & Notes
sp: शकु
न माननीयेष्वात्मानमपराधयिष्ये । (इत्युत्थाय गन्तुमिच्छति)
व्याख्या / Traditional Commentary & Notes
sp: राजा
सुन्दरि अनिर्वाणो दिवसः इयं च ते शरीरावस्था ।
AS 3.106 आर्या
उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणम् । कथमातपे गमिष्यसि परिबाधापेलवैरङ्गैः ॥
(इति बलादेनां निवर्तयति)
व्याख्या / Traditional Commentary & Notes
sp: शकु
पौरव रक्ष विनयम् । मदनसंतप्ता अपि न खल्वात्मनः प्रभवामि ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
भीरु अलं गुरुजनभयेन । दृष्ट्वा ते विदितधर्मा तत्रभवान्नात्र दोषं ग्रहीष्यति कुलपतिः । पश्य ।
AS 3.110 अनुष्टुप्
गान्धर्वेण विवाहेन बह्व्यो राजर्षिकन्यकाः । श्रूयन्ते परिणीतास्ताः पितृभिश्चाभिनन्दिताः ॥
व्याख्या / Traditional Commentary & Notes
sp: शकु
मुञ्च तावन्माम् । भूयोऽपि सखीजनमनुमानयिष्ये ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
भवतु । मोक्ष्यामि ।
व्याख्या / Traditional Commentary & Notes
sp: शकु
AS 3.115 औपच्छन्दसिक
अपरिक्षतकोमलस्य यावत्कुसुमस्येव नवस्य षट्पदेन ।अधरस्य पिपासता मया ते सदयं सुन्दरि गृह्यते रसोऽस्य ॥
(इति मुखमस्याः समुन्नमयितुमिच्छति । शकुन्तला परिहरति नाट्येन)
चक्रवाकवधुके आमन्त्रयस्व सहचरम् ।उपस्थिता रजनी ।
व्याख्या / Traditional Commentary & Notes
sp: शकु
(ससंभ्रमम्) पौरव असंशयं मम शरीरवृत्तान्तोपलम्भायार्या गौतमी इत एवागच्छति । तद्विटपान्तरितो भव ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
तथा । (इत्यात्मानमावृत्य तिष्ठति)
← Previous (Ch. 2) Full Table of Contents Next (Ch. 4) →