Skip to main content
Search
Ch. 2 RV 2.59
Full Chapter
RV • Chapter 2: Canto 2

RV 2.59

Canonical Ref: RV 2.59
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
तथेति गामुक्तवते दिलीपः सद्यः प्रतिष्टम्भविमुक्तबाहुः । सन्न्यस्तशस्त्त्रो हरये स्वदेहमुपानयत्पिण्डमिवामिषस्य ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तथेति॥ तथेति गामुक्तवते हरये सिंहाय। `कपौ सिंहे सुवर्णे च वर्णे विष्णौ हरिं विदुः` इति शाश्वतः। सद्यस्तत्क्षणे प्रतिष्टम्भात्प्रतिबन्धाद्विमुक्तो बाहुर्यस्य सः। दिलीपः। न्यस्तशस्त्त्रस्त्यक्तायुधः सन्। स्वदेहं, आमिषस्य मांसस्य, `पललं क्रव्यमामिषम्` इत्यमरः (अ.को.2|6|63)। पिण्डं कवलमिव। उपानयत् समर्पितवान्। एतेन निर्ममत्वमुक्तम्॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 2.59. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 2.58) All Verses in Chapter 2 Next Verse (RV 2.60) →