Skip to main content
Search
Ch. 2 RV 2.60
Full Chapter
RV • Chapter 2: Canto 2

RV 2.60

Canonical Ref: RV 2.60
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
तस्मिन्क्षणे पालयितुः प्रजानामुत्पश्यतः सिंहनिपातमुग्रम् । अवाङ्मुखस्योपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तस्मिन्निति॥ तस्मिन्क्षणे उग्रं सिंहनिपातमुत्पश्यत उत्प्रेक्षमाणस्य तर्कयतोऽवाङ्मुखस्याधोमुखस्य। `स्यादवाङप्यधोमुखः` इत्यमरः (अ.को.3|1|33)। प्रजानां पालयितू राज्ञ उपर्युपरिष्टात्। `उपर्युपरिष्टात्` (पा.5।3।31) इति निपातः। विद्याधराणां देवयोनिविशेषणां हस्तैर्मुक्ता पुष्पवृष्टिः पपात ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 2.60. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 2.59) All Verses in Chapter 2 Next Verse (RV 2.61) →