Skip to main content
Search
Ch. 2 RV 2.58
Full Chapter
RV • Chapter 2: Canto 2

RV 2.58

Canonical Ref: RV 2.58
Metrical Form: इन्द्रवज्रा
Sanskrit (Devanāgarī)
संबन्धमाभाषणपूर्वमाहुर्वृत्तः स नौ संगतयोर्वनान्ते । तद्भूतनाथानुग! नार्हसि त्वं संबन्धिनो मे प्रणयं विहन्तुम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): संबन्धमिति॥ संबन्धं सख्यम्। आभाषणमालापः पूर्वं कारणं यस्य तमाहुः। `स्यादाभाषणमालापः` इत्यमरः (अ.को.1|6|15)। स तादृक्संबन्धो वनान्ते संगतयोर्नावावयोर्वृत्तो जातः। तत्ततो हेतोर्हे भूतनाथानुग शिवानुचर!। एतेन तस्य महत्त्वं सूचयति। अत एव संबन्धिनो मित्रस्य मे प्रणयं याञ्चाम्। `प्रणयास्त्मी। विश्रम्भयाञ्चाप्रेमाणः` इत्यमरः (अ.को.1|6|15)। विहन्तुं नार्हसि ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 2.58. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 2.57) All Verses in Chapter 2 Next Verse (RV 2.59) →