Skip to main content
Search
Ch. 2 RV 2.57
Full Chapter
RV • Chapter 2: Canto 2

RV 2.57

Canonical Ref: RV 2.57
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
किमप्यहिंस्यस्तव चेन्मतोऽहं यशःशरीरे भव मे दयालुः । एकान्तविध्वंसिषु मद्विधानां पिण्डेष्वनास्था खलु भौतिकेषु ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): किमिति॥ किमपि किं वाऽहं तवाहिंस्योऽवध्यो मतश्चेत्तर्हि मे यश एव शरीरं तस्मिन् दयालुः कारुणिको भव। `स्याद्दयालुः कारुणिकः` इत्यमरः (अ.को.3|1|15)। ननु मुख्यमुपेक्ष्यामुख्यशरीरे कोऽभिनिवेशः? अत आह-एकान्तेति॥ मद्विधानां मादृशानां विवेकिनामेकान्तविध्वंसिष्ववश्यविनाशिषु भौतिकेषु पृथिव्यादिभूतविकारेषु पिण्डेषु शरीरेष्वनास्था खल्वनपेक्षैव। `आस्था त्वालम्बनास्थानयत्नापेक्षासु कथ्यते` इति विश्वः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 2.57. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 2.56) All Verses in Chapter 2 Next Verse (RV 2.58) →