Skip to main content
Search
Ch. 2 RV 2.56
Full Chapter
RV • Chapter 2: Canto 2

RV 2.56

Canonical Ref: RV 2.56
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
भवानपीदं परवानवैति महान्हि यत्नस्तव देवदारौ । स्थातुं नियोक्तुर्न हि शक्यमग्रे विनाश्य रक्ष्यं स्वयमक्षतेन ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): भवानिति॥ परवान् स्वामिपरतन्त्त्रो भवानपि। `परतन्त्त्रः पराधीनः परवान्नाथवानपि` इत्यमरः (अ.को.3|3|272)। इदं वक्ष्यमाणमवैति। भवतानुभूयत एवेत्यर्थः। `शेषे प्रथमः` (पा.1।4।108) इति प्रथमपुरुषः। किमित्यत आह-हि यस्माद्धेतोः, `हि हेताववधारणे` इत्यमरः (अ.को.3|3|272)। तव देवदारौ विषये महान् यत्नः। महता यत्नेन रक्ष्यत इत्यर्थः। इदंशब्दोक्तमर्थं दर्शयति-स्थातुमिति॥ रक्ष्यं वस्तु विनाश्य विनाशं गमयित्वा स्वयमक्षतेनाव्रणेन। नुयुक्तेनेति शेषः। नियोक्तुः स्वामि नोऽग्रे स्थातुं शक्यं न हि ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 2.56. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 2.55) All Verses in Chapter 2 Next Verse (RV 2.57) →