Skip to main content
Search
Ch. 2 RV 2.55
Full Chapter
RV • Chapter 2: Canto 2

RV 2.55

Canonical Ref: RV 2.55
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुं भवत्तः । न पारणा स्याद्विहता तवैवं भवेदलुप्तश्च मुनेः क्रियार्थः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): सेयमिति॥ सेयं गौर्मया। निष्क्रीयते प्रत्याह्रियतेऽनेन परगृहीतमिति निष्क्रयः प्रतिशीर्षकम्। `एरच्` (पा.3।3।56) इत्यच्प्रत्ययः। स्वदेहार्पणमेव निष्क्रयस्तेन भवत्तस्त्वत्तः। पञ्चम्यास्तसिल्। मोचयितुं न्याय्या न्यायादनपेता। युक्तेत्यर्थः। `धर्मपथ्यर्थं-` (पा.4।4।92) इत्यादिना यत्प्रत्ययः। एवं सति तव पारणा भोजनं विहता न स्यात्। मुनेः क्रिया होमादिः स एवार्थः प्रयोजनम्। स चालुप्तो भवेत्। स्वप्राणब्ययेनापि स्वामिगुरुधनं संरक्ष्यमिति भावः॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 2.55. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 2.54) All Verses in Chapter 2 Next Verse (RV 2.56) →