Skip to main content
Search
Ch. 2 RV 2.54
Full Chapter
RV • Chapter 2: Canto 2

RV 2.54

Canonical Ref: RV 2.54
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
कथं नु शक्योऽनुनयो महर्षेर्विश्राणनाञ्चान्यपयस्विनीनाम् । इमामनूनां सुरभेरवेहि रुद्रौजसा तु प्रहृतं त्वयाऽस्याम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): कथमिति॥ अनुनयः क्रोधापनयः। चकारो वाकारार्थः। महर्षेरनुनयो वाऽन्यासां पयस्विनीनां दोग्ध्रीणां गवां विश्राणनाद्दानात्। `त्यागो वितरणं दानमुत्सर्जनविसर्जने। विश्राणनं वितरणम्` इत्यमरः (अ.को.2|7|31)। कथं नु शक्यः? न शक्य इत्यर्थः। अत्र हेतुमाह-इमां गां सुरभेः कामधेनोः। `पञ्चमी विभक्ते` (पा.2।3।42)इति पञ्चमी। अनूनामन्यूनामवेहि जानीहि। तर्हि कथमस्याः परिभवोऽभूदित्याह-रुद्रौजसेति। अस्यां गवि त्वया कर्त्रा प्रहृतं तु प्रहारस्तु। नपुंसके भावे क्तः। रुद्रौजसेश्वरसामर्थ्येन। न तु त्वयेत्यर्थः। `सप्तम्यधिकरणे च` (पा.2।3।36) इति सप्तमी॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 2.54. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 2.53) All Verses in Chapter 2 Next Verse (RV 2.55) →