Skip to main content
Search
Ch. 2 RV 2.53
Full Chapter
RV • Chapter 2: Canto 2

RV 2.53

Canonical Ref: RV 2.53
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
क्षतात्किल त्रायत इत्युदग्रः क्षत्त्रस्य शब्दो भुवनेषु रूढः । राज्येन किं तद्विपरीतवृत्तेः प्राणैरुपक्रोशमलीमसैर्वा ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): क्षतादिति॥ `क्षणु हिंसायाम्` इति धातोः संपदादित्पात्क्विप्। `गमादीनाम्`(वा.4073) इति वक्तव्यादनुनासिकलोपे तुगागमे च क्षदिति रूपं सिद्धम्। क्षतो नाशात्त्रायत इति क्षत्त्रः। `सुपि-` (पा.3।2।4) इति योगविभागात्कः। तामेतां व्युत्पत्तिं कविरर्थतोऽनुक्रामति-क्षतादित्यादिना। उदग्र उन्नतः क्षत्त्रवर्णस्य शब्दो वाचकः। क्षत्त्रशब्द इत्यर्थः। क्षतात्त्रायत इति व्युत्पत्त्या भुवनेषु रूढः किल प्रसिद्धः। खलु। नाश्वकर्णादिवत्केवलरूढः किंतु पङ्कजादिवद्योगरूढ इत्यर्थः। ततः किमित्य आह-तस्य`क्षत्त्र`शब्दस्य विपरीतवृत्तेर्विरुद्धव्यापारस्य क्षतस्त्राणमकुर्वतः पुंसो राज्येन किम्? उपक्रोशमलीमसैर्निन्दामलिनैः। `उपक्रोशोजुगुप्सा च कुत्सा निन्दा च गर्हणे` इत्यमरः। `ज्योत्स्नातमिस्रा-` (पा.5।2।114)इत्यादिना `मलीमैस`शब्दो निपातितः। `मलीमसं तु मलिनं कञ्चरं मलदूषितम्` इत्यमरः। तैः प्राणैर्वा किम्? निन्दितस्य सर्वं व्यर्थमित्यर्थः। एतेन `एकातपत्रम्`(2।47)इत्यादिना श्लोकद्वयेनोक्तं प्रत्युक्तमिति वेदितव्यम् ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 2.53. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 2.52) All Verses in Chapter 2 Next Verse (RV 2.54) →