Skip to main content
Search
Ch. 2 RV 2.52
Full Chapter
RV • Chapter 2: Canto 2

RV 2.52

Canonical Ref: RV 2.52
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
निशम्य देवानुचरस्य वाचं मनुष्यदेवः पुनरप्युवाच । धेन्वा तदध्यासितकातराक्ष्या निरीक्ष्यमाणः सुतरां दयालुः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): निशम्येति॥ देवानुचरस्येश्वरकिंकरस्य सिंहस्य वाचं निशम्य, मनुष्यदेवो राजा पुनरप्युवाच। किंभूतः सन्? तेन सिंहेन यदध्यासितं व्याक्रमणम्। नपुंसके भावे क्तः। तेन कातरे अक्षिणी यस्यास्तया। `बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्` (पा.5।4।113) इति षच्। `षिद्गौरादिभ्यश्च` (पा.4।1।41) इति ङीष्। `किंवा वक्ष्यति` इति मीत्यैवं स्थितयेत्यर्थः। धेन्वा निरीक्ष्यमाणः। अत एव सुतरां दयालुः सन्। `सुतराम्` इत्यत्र `द्विवचनविभज्य-` (पा.4।1।41) इत्यादिना सुशब्दात्तरप्। `किमेत्तिङव्यय-` (पा.5।4।11) इत्यादिनाम्प्रत्ययः। `तद्धितश्चासर्वविभक्तिः` (पा.1।1।38) इत्यव्ययसंज्ञा ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 2.52. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 2.51) All Verses in Chapter 2 Next Verse (RV 2.53) →