Skip to main content
Search
Ch. 17 RV 17.60
Full Chapter
RV • Chapter 17: Canto 17

RV 17.60

Canonical Ref: RV 17.60
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
कोशेनाश्रयणीयत्वमिति तस्यार्थसंग्रहः । अम्बुगर्भो हि जीमूतशअचातकैरभिनन्द्यते ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): कोशेनेति॥ कोशेनार्थचयेन। आश्रणीयत्वं भजनीयत्वम्। भवतीति शेषः। इति हेतोस्तस्य राज्ञः कर्तुः अर्थसंग्रहः। न तु लोभादित्यर्थः। तथा हि-अम्बु गर्भे यस्य सोऽम्बुगर्भः, जीवनस्य जलस्य मूतः पुटबन्धो जीमूतो मेघः। `मूङ् बन्धने`। पृषोदरादित्वात्साधुः। चातकैरभिनन्द्यते सेव्यते। न तु कर्तरि क्तः। अत्र कामन्दकः-`धर्महेतोस्तथाऽर्थाय मृत्यानां रक्षणाय च। आपदर्थं च संरक्ष्यः कोशो धर्मवता सदा ॥` इति ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 17.60. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 17.59) All Verses in Chapter 17 Next Verse (RV 17.61) →