Skip to main content
Search
Ch. 17 RV 17.59
Full Chapter
RV • Chapter 17: Canto 17

RV 17.59

Canonical Ref: RV 17.59
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
परात्मनोः परिच्छिद्य शक्त्यादीनां बलाबलम् । ययावेभिर्मलिष्ठश्चेत्परस्मादास्त सोऽन्यथा ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): परेति॥ सोऽतिथिः परात्मनोः शत्रोरात्मनश्च शक्त्यादीनां शक्तिदेशकालादीनां बलाबलं न्यूनाधिकभावं परिच्छिद्य निश्चित्य। एभिः शक्त्यादिभिः परस्माच्छत्रोर्बलिष्ठः स्वयमतिशयेन वलवांश्चेत्। `बल`शब्दान्मतुबन्तादिष्ठन्प्रत्ययः। `विन्मतोर्लुक्` (पा.5।3।65) इति मतुपो लुक्। ययौ यात्रां चक्रे। अन्यथा न बलिष्ठश्चेत्। आस्तातिष्ठत्। न ययावित्यर्थः। अत्र मनुः(7।171)-`यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम्। परस्य विपरीतं च तदा यायाद्रिपून्प्रति॥ यदा तु स्यात्परिक्षीणो वाहनेन बलेन च। तदासीत प्रयत्नेन शनकैः सान्त्वयन्नरीन्` इति ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 17.59. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 17.58) All Verses in Chapter 17 Next Verse (RV 17.60) →