Skip to main content
Search
Ch. 17 RV 17.58
Full Chapter
RV • Chapter 17: Canto 17

RV 17.58

Canonical Ref: RV 17.58
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
हीनान्यनुपकर्तॄणि प्रवृद्धानि विकुर्वते । तेन मध्यमशक्तीनि मित्राणि स्थापितान्यतः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): हीनानिति॥ मित्राणि हीनान्यतिक्षीणानि चेत्, अनुपकर्तॄण्यनुपकारीणि। प्रवृद्धान्यतिसमृद्धानि चेद्विकुर्वते विरुद्धं चेष्टते। अपकुर्वत इत्यर्थः। `अकर्मकाञ्च` (पा.1।3।45) इत्यात्मनेपदम्। अतः कारणात्तेन राज्ञा मित्राणि सुहृदः। `मित्रं सुहृदि मित्रोऽर्के` इति विश्वःष। मध्यमशक्तीनि नातिक्षीणोच्छ्रितानि यथा- स्यात्तथा स्थापितानि ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 17.58. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 17.57) All Verses in Chapter 17 Next Verse (RV 17.59) →