Skip to main content
Search
Ch. 17 RV 17.61
Full Chapter
RV • Chapter 17: Canto 17

RV 17.61

Canonical Ref: RV 17.61
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
परकर्मापहः सोऽभूदुद्यतः स्वेषु कर्मसु । आवृणोदात्मनो रन्ध्रं रन्ध्रेषु प्रहरन्रिपून् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): परकर्मेति॥ स राजा परेषां कर्माणि सेतुवार्तादीन्यपहन्तीति परकर्मापहः सन्। `अन्येष्वपि दृश्यते` (पा.3।3।101) इत्यपिशब्दसामर्थ्याद्धन्तेर्डप्रत्ययः। स्वेषु कर्मसूद्यत उद्युक्तोऽभूत्। किंच, रिपून् रन्ध्रेषु प्रहरन्नात्मनो रन्ध्रं व्यसनातिकमावृणोत् संवृतवान्। अत्र मनुः(7।105)-`नास्य च्छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु। गूहेत्कर्मं इवाङ्गानि रक्षेद्विवरमात्मनः ॥` इति ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 17.61. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 17.60) All Verses in Chapter 17 Next Verse (RV 17.62) →