Skip to main content
Search
RV
Raghuvaṁśam • Chapter 16

Canto 16

षोडशः सर्गः (कुमुद्वतीपरिणयः)

Canto 16 of Raghuvaṁśam.

Total: 88 Verses • Citations: RV 16.1–88 • 1 Lexicon Terms • Page 2 of 3 (Verses 30 shown)
RV 16.31 उपजातिः
मार्गैषिणी सा कटकान्तरेषु वैन्ध्येषु सेना बहुधा विभिन्ना । चकार रेवेव महाविरावा बद्धप्रतिश्रुन्ति गुहामुखानि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मार्गेति॥ वैन्ध्येषु विन्ध्यसंबन्धिषु कटकान्तरेषु नितम्बावकाशेषु। `कटकोऽस्त्री नितम्बोऽद्रेः` इत्यमरः (अ.को.2|3|5)। मार्गैषिणी मार्गावलोकिनी। अत एव बहुधा विभिन्ना। महाविरावा दीर्घशब्दा सा सेना। रेवेव नर्मदेव। `रेवा तु नर्मदा सोमोद्भवा मेखलकन्यका` इत्यमरः (अ.को.2|3|5)। गुहामुखानि बद्धप्रतिश्रुन्ति प्रतिध्वानवन्ति चकाराकरोत् ॥
RV 16.32 उपजातिः
स धातुभेदारुणयाननेमिः प्रभुः प्रयाणध्वनिमिश्रतूर्यः । व्यलङ्घयद्विन्ध्यमुपायनानि पश्यन्पुलिन्दैरुपपादितानि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ धातूनां गैरिकादीनां भेदेनारुणा याननेमी रथचक्रधारा यस्य। प्रयाणे ये ध्वनयः क्ष्वेडहेषादयः तन्मिश्राणि तूर्याणि यस्यैवंविधः स प्रभुः कुशः। पुलिन्दैः किरातैरुपपादितानि समर्पितान्युपायनानि पश्यन्। विन्ध्यं व्यलङ्घयत् ॥
RV 16.33 उपजातिः
तीर्थे तदीये गजसेतुबन्धात्प्रतीपगामुत्तरतोऽस्य गङ्गाम् । अयत्नबालव्यजनीबभूवुर्हंसा नभोलङ्घनलोलपक्षाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तीर्थ इति॥ तदीये वैन्ध्ये तीर्थेऽवतारे गजा एव सेतुस्तस्य बन्धाद्धेतोः प्रतीपगां पश्चिमवाहिनीं गङ्गामुत्तरतोऽस्य कुशस्य नभोलङ्घनेन लोलपक्षा हंसा अयत्नेन बालव्यजनीबभूवुश्चामराण्यभूवन्। अभूततद्भावे च्विः ॥
RV 16.34 उपजातिः
स पूर्वजानां कपिलेन रोषाद्भास्मावशेषीकृतविग्रहाणाम् । सुरालयप्राप्तिनिमित्तमम्भस्त्रैस्रोतसं नौलुलितं ववन्दे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स कुशः कपिलेन मुनिना रोषाद्भस्मावशेषीकृता विग्रहा देहा येषां तेषां पूर्वजानां वृद्धानां सागराणां सुरालयस्य स्वर्गस्य प्राप्तौ निमित्तं नौभिर्लुलितं क्षुभितम्। त्रिस्रोतस इदं त्रैस्नोतसम्। गाङ्गमम्भो ववन्दे ॥
RV 16.35 इन्द्रवज्रा
इत्यध्वनः कैश्चिदहोभिरन्ते कूलं समासाद्य कुशः सरय्वाः । वेदिप्रतिष्ठान्वितताध्वराणां यूपानपश्यच्छतशो रघूणाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): इतीति॥ इति कैश्चिदहोभिरध्वनोऽवसाने कुशः सरय्वाः कूलं समासाद्य वितताध्वराणां विस्तृतमखानां रघूणाम्। वेदिः प्रतिष्ठास्पदं येषां तान्। यूपाञ्छतशोऽपश्यत् ॥
RV 16.36 इन्द्रवज्रा
आधूय शाखाः कुसुमद्रुमाणां स्पृष्ट्वा च शीतान्सरयूतरंगान् । तं क्लान्तसैन्यं कुलराजधान्याः प्रत्युज्जगामोपवनान्तवायुः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): आधूयेति॥ कुलराजधान्या उपवनान्तवायुः कुसुमद्रामाणां शाखा आधूयेषद्धत्वा। सुरभिर्मन्दश्चेत्यर्थः। शीतान्सरयूतरंगांश्च स्पृष्ट्वा। अनेन शैत्योक्तिः। क्लान्तसैन्यं तं कुशं प्रत्युज्जगाम ॥
RV 16.37 उपजातिः
अथोपशल्ये रिपुमग्नशल्यस्तस्याः पुरः पौरसखः स राजा । कुलध्वजस्तानि चलध्वजानि निवेशयामास बली बलानि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ रिपुषु मग्नं शल्यं शङ्कु शरो वा यस्य सः। `शल्यं शङ्कौ शरे वंशे` इति विश्वः। पौराणां सखा पौरसखः। कुलस्य ध्वजश्चिह्नभूतो बली स राजा चलाशअचलन्तो वा ध्वजा येषां तानि। तानि बलानि सैन्यानि तस्याः पुरः पुर्या उपशल्ये ग्रामान्ते। `ग्रामान्त उपशल्यं स्यात्` इत्यमरः। निवेशयामास ॥
RV 16.38 उपजातिः
तां शिल्पिसंघाः प्रभुणा नियुक्तास्तथागतां संभृतसाधनत्वात् । पुरं नवीचक्रुरपां विसर्गान्मेघा निदाघग्लपितामिवोर्वीम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तामिति॥ प्रभुणा नियुक्ताः शिल्पिनां तक्षादीनां संघाः संभृतसाधनत्वान्मिलितोपकरणत्वात्तां तथागताम्। शून्यामित्यर्थः। पुरमयोध्याम्। मेघा अपां विसर्गाज्जलसेकान्निदाघग्लपितां ग्रीष्मतप्तामुर्वीमिव। नवीचक्रुः परिपूरयांचक्रुः ॥
RV 16.39 उपजातिः
ततः सपर्यां सपशूपहारां पुरः परार्ध्यप्रतिमागृहायाः । उपोषितैर्वास्तुविधानविद्भिर्निर्वर्तयामास रघुप्रवीरः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततो रङुप्रवीरः कुशः प्रतिमा देवताप्रतिकृतयः। अर्चा इत्यर्थः। परार्धअयप्रतिमागृहायाः प्रशस्तदेवतायतनायाः पर उपोषितैर्वास्तुविधानविद्भिः प्रयोज्यैः पशूपहारैः सहितां सपशूपहारां सपर्यां निर्वर्तयामास कारयामास। अत्र ण्यन्ताण्णिच्पुनरित्यनुसंधेयम्। अन्यथा वृतेरकर्मकस्य करोत्यर्थत्वे कारयत्यर्थाभावप्रसङ्गात्। भवितव्यं वृतेरण्यन्तकर्त्रा प्रयोज्यत्वेन तन्निर्देशात्प्रयोगान्तरस्यापेक्षितत्वात् ॥
RV 16.40 उपजातिः
तस्याः स राजोपपदं निशान्तं कामीव कान्ताहृदयं प्रविश्य । यथार्हमन्यैरनुजीविलोकं संभावयामास यथाप्रधानम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्या इति॥ स कुशस्तस्याः पुरः संबन्धि राजोपपदं `राजशब्द` पूर्वं निशान्तम्। राजभवनमित्यर्थः। `निशान्तं भवनोषसोः` इति विश्वः। कामी कान्तहृदयमिव प्रविश्य। अन्यैर्निशान्तैरनुजीविलोकममात्यादिकं यथाप्रधानं मानानुसारेण। यथार्हं यथोचितम्। तत्तदुचितगृहैरित्यर्थः। संभावयामास ॥
RV 16.41 इन्द्रवज्रा
सा मन्दुरासंश्रयिभिस्तुरंगैः शालाविधिस्तम्भगतैश्च नागैः । पूराबभासे विपणिस्थपण्या सर्वाङ्गनद्धाभरणेव नारी ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सेति॥ विपणिस्थानि पण्यानि क्रयविक्रयार्हवस्तूनि यस्याः सा। `विपणिः पण्यवीथिका` इत्यमरः (अ.को.2|2|2)। सा पूः अयोध्या। मन्दुरासंश्रयिभिरश्वशालासंश्रयणशीलैः। `वाजिशाला तु मन्दुरां` इत्यमरः (अ.को.2|2|2)। `जिदृक्षि-` (पा.3।2।157) इत्यादिनेनिप्रत्ययः। तुरंगैरश्वैः। शालासु गृहेषु ये विधिना स्थापिताः स्तम्भास्तान्गतैः प्राप्तैर्नागैश्च। सर्वाङ्गेषु नद्धान्याभरणानि यस्याः सा नारीव। आबभासे ॥
RV 16.42 उपजातिः
वसन्स तस्यां वसतौ रघूणां पुराणशोभामधिरोपितायाम् । न मैथिलेयः स्पृहयांबभूव भर्त्रे दिवो नाप्यलकेश्वराय ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): वसन्निति॥ स मैथिलेयः कुशः पुराणशोभां पूर्वशोभामधिरोपितायां तस्यां रघूणां वसतावयोध्यायां वसन्। दिवो भर्त्रे देवेन्द्राय तथाऽलकेश्वराय कुबेरायापि न स्पृहयांबभूव। तावपि न गणयामासेत्यर्थः। `स्पृहेरीप्सितः` (पा.1।4।37) इति संप्रदानत्वाञ्चतुर्थी। एतेनायोध्याया अन्यनगरातिशायित्वं गम्यते ॥
RV 16.43 उपजातिः
अथास्य रत्नग्रथितोत्तरीयमेकान्तपाण्डुस्तनलम्बिहारम् । निःश्वासहार्यांशुकमाजगाम घर्मः प्रियावेशमिवोपदेष्टुम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथास्य कुशस्य। रत्नैर्मुक्तामणिभिर्ग्रथितान्युत्तरीयाणि यस्मिंस्तम्। एकान्तमत्यन्तं पाण्ड्वोः स्तनयोर्लम्बिनो हारा यस्मिंस्तम्। निःश्वासहार्याण्यतिसूक्ष्माण्यंशुकानि यत्र तम्। एवं शीतलप्रायं प्रियाया वेशं नेपथ्यमुपदेष्टुमिव। घर्मो ग्रीष्म आजगाम ॥
RV 16.44 उपजातिः
अगस्त्यचिह्नादयनात्समीपं दिगुत्तरा भास्वति संनिवृत्ते । आनन्दशीतामिव बाष्पवृष्टिं हिमस्रुतिं हैमवतीं ससर्ज ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अगस्त्येति॥ अगस्त्यश्चिह्नं यस्य तस्मादयनान्मार्गाद्दक्षिणायनाद्भास्वति समीपं संनिवृत्ते सति। उत्तरा दिक्। आनन्दशीतां बाष्पवृष्टिमिव। हैमवतीं हिमवत्संबन्धिनीं हिमस्रुतिं हिमनिष्यन्दं हिमनिष्यन्दं ससर्ज। अत्र प्रोषितप्रियासमागमसमाधिर्गम्यते ॥
RV 16.45 उपजातिः
प्रवृद्धतापो दिवसोऽतिमात्रमत्यर्थमेव क्षणदा च तन्वी । उभौ विरोधक्रियया विभिन्नौ जायापती सानुशयाविवास्ताम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रवृद्धेति॥ अतिमात्रं प्रवृद्धतापो दिवसः। अत्यर्थमेवानल्पं तन्वी कृशा क्षणदा च इत्येतावुभौ विरोधक्रियया प्रणयकलहादिना विरोधाचरणेन विभिन्नौ सानुशयौ सानुतापौ जायापती दंपती इव। आस्ताम्। तयोरपि तापकार्श्यसंभवात्तत्सदृशाबभूतामित्यर्थः ॥
RV 16.46 उपजातिः
दिने दिने शैवलवन्त्यधस्तात्सोपानपर्वाणि विमुञ्चदम्भः । उद्दण्डपद्मं गृहदीर्घिकाणां नारीनितम्बद्वयसं बभूव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): दिने दिन इति॥ दिने दिने प्रतिदिनं शैवलवन्त्यधस्ताद्यानि सोपानानां पर्वाणि भङ्ग्यस्तानि विमुञ्चत्। अत एव उद्दण्डपद्मं गृहदीर्घिकाणामम्भः। नारीनितम्बः प्रमाणमस्य नारीनितम्बद्वयसं बभूव। विहारयोग्यमभूदित्यर्थः। `प्रयाणे द्वयसच्-` (पा.5।2।37) इति द्वयसच्प्रत्ययः ॥
RV 16.47 उपजातिः
वनेषु सायंतनमल्लिकानां विजृम्भणोद्गन्धिषु कुड्मलेषु । प्रत्येकनिक्षिप्तपदः सशब्दं संख्यामिवैषां भ्रमरश्चकार ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): वनेष्विति॥ वनेषु विजृम्भणेन विकासेनोद्गन्धिषूत्कटसौरभेषु । `गन्धस्य -` (पा.5।4।135) इत्यादिना समासान्त इकारादेशः। सायंतनमल्लिकानां कुड्मलेषु सशब्दं यथा तथा प्रत्येकमेकैकस्मिन्निक्षिप्तपदः। मकरन्दलोभादित्यर्थः। भ्रमर एषां कुड्मलानां संख्यां गणनां चकारेव ॥
RV 16.48 उपजातिः
स्वेदानुविद्धार्द्रनखक्षताङ्के भूयिष्ठसंदष्टशिखं कपोले । च्युतं न कर्णादपि कामिनीनां शिरीषपुष्पं सहसा पपात ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स्वेदेति॥ स्वेदानुविद्धमार्द्रं नूतनं नखक्षतमङ्को यस्य तस्मिन्कामिनीनां कपोले भूयिष्ठमत्यर्थं संदष्टशिखं विश्लिष्टकेसरम्, अत एव कर्णाञ्च्युतमपि। शिरीषपुष्पं सहसा न पपात ॥
RV 16.49 उपजातिः
यन्त्रप्रवाहैः शिशिरैः परीतान्ससेन धौतान्मलयोद्भवस्य । शिलाविशेषानधिशय्य निन्युर्धारागृहेष्वातपमृद्धिमन्तः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): यन्त्रेति॥ ऋद्धिमन्तो धनिका धारागृहेषु यन्त्रधारागृहेषु शिशिरैर्यन्त्रप्रवाहैर्यन्त्रसंचारितसलिलपूरैः परीतान् व्याप्तान्। मलयोद्भवस्य रसेन चन्दनोदकेन धौतान्क्षालिताञ्छिलाविशेषान्मणिमयासनान्यधिशय्य तेषु शयित्वाऽऽतपं निन्युरातपपरिहारं चक्रुः ॥
RV 16.50 इन्द्रवज्रा
स्नानार्द्रमुक्तेष्वनुधूपवासं विन्यस्तसायंतनमल्लिकेषु ॥ कामो वसन्तात्ययमन्दवीर्यः केशेषु लेभे बलमङ्गनानाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स्नानेति॥ वसन्तस्यात्मसहकारिणोऽत्ययेनातिक्रमेण मन्दवीर्योऽतिदुर्बलः कामः स्नानार्द्राश्च ते मुक्ताश्च। धूपसंचारणार्थमित्यर्थः, तेषु। अनुधूपवासं धूपवासानन्तरं विन्यस्ताः सायंतनमल्लिका येषु तेषु। अङ्गनानां केशेषु बलं लेभे। तैरुद्दीपित इत्यर्थः ॥
RV 16.51 उपजातिः
आपिञ्जरा बद्धरजः कणत्वान्मञ्जर्युदार शुशुभेऽर्जुनस्य । दग्ध्वापि देहं गिरिशेन रोषात्खण्डीकृता ज्येव मनोभवस्य ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): आपिञ्जरेति॥ बद्धरजःकणत्वाद्व्याप्तरजः कणत्वादापिञ्जरोदारा द्राघीयसी अर्जुनस्य ककुभवृक्षस्य। `इन्द्रद्रुः ककुभोऽर्जुनः` इत्यमरः (अ.को.2|4|45)। मञ्जरी। देहं दग्ध्वापि रोषाद्गिरिशेन गिरिरस्त्यस्य निवासत्वेन गिरिशस्तेन। सोमादित्वाच्छप्रत्ययः। गिरौ शेत इति विग्रहे तु `गिरौ शेतेर्डः`(वा.1999) इत्यस्य छन्दसि विधानाल्लोके प्रयोगानुपपत्तिः स्यात्। तस्मात्पूर्वोक्तमेव विग्रहवाक्यं न्याय्यम्। खण्डीकृता मनोभवस्य ज्या मौर्वीव। शुशुभे ॥
RV 16.52 उपजातिः
मनोज्ञगन्धं सहकारभङ्गं पुराणशीधुं नवपाटलं च ॥ संबध्नता कामिजनेषु दोषाः सर्वे निदाघावधिना प्रमृष्टाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मनोज्ञेति॥ मनोज्ञगन्धमिति सर्वत्र संबध्यते। सहकारभङ्गं चूतपल्लवखण्डम्। पुराणं वासितं शेरतेऽनेनेति शीधुः पक्वेक्षुरसप्रकृतिकः सुराविशेषस्तम्। `शीङोधुक्`(उ.सू.478) इत्यणादिसूत्रेण `शीङ् स्वप्ने` इत्यस्माद्धातोर्धुक्प्रत्ययः। `पक्वैरिक्षुरसैरस्त्री शीधुः पक्वरसः शिवः` इति यादवः। नवं पाटलायाः पुष्पं पाटलं च संबध्नता संघट्टयता निदाघावधिना ग्रीष्मकालेन। `अवधिस्त्ववधाने स्यात्सीम्नि काले बिलेऽपि च` इति विश्वः। कामिजनेषु विषये सर्वे दोषास्तापादयः प्रमृष्टाः परिहृताः ॥
RV 16.53 उपजातिः
जनस्य तस्मिन्समये विगाढे बभूवतुर्द्वौ सविशेषकान्तौ । तापापनोदक्षमपादसेवौ स चोदयस्थौ नृपतिः शशी च ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): जनस्येति॥ थस्मिन्समये ग्रीष्मे विगाढे कठिने सति जनस्य द्वौ सविशेषे सातिशयं यथा तथा कान्तौ बभूवतुः। कौ द्वौ? तापापनोदे क्षमा योग्या, पादयोरङ्घ्रयोः पादानां रश्मीनां च सेवा ययोस्तौ। उदयस्थावभ्युदयस्थौ स च नृपतिः शशी च ॥
RV 16.54 उपजातिः
अथोर्मिलोलोन्मदराजहंसे रोधोलतापुष्पवहे सरय्वाः । विहर्तुमिच्छा वनितासखस्य तस्याम्भसि ग्रीष्मसुखे बभूव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथोर्मिषु लोलाः सतृष्णा उन्मदा राजहंसा यस्मिंस्तस्मिन्। `लोलश्चलसतृष्णयोः` इत्यमरः (अ.को.3|3|214)। रोधोलतापुष्पाणां वहे प्रापके। पचाद्यच्। ग्रीष्मेषु सुखे सुखकरे सरय्वा अम्भसि पयसि तस्य कुशस्य वनितासखस्य। वनिताभिः सहेत्यर्थः। विहर्तुमिच्छा बभूव ॥
RV 16.55 उपजातिः
स तीरभूमौ विहितोपकार्यामानायिभिस्तामपकृष्टनक्राम् । विगाहितुं श्रीमहिमानुरूपं प्रचक्रमे चक्रधरप्रभावः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ चक्रधरप्रभावो विष्णुतेजाः स कुशस्तीरभूमौ विहितोषकार्या यस्यास्ताम्। आनायो जालमेषामस्तीत्यानायिनो जालिकाः। `जालमानायः` (पा.3।3।124) इति निपातः। `ानायः पुंसि जालं स्यात्` इत्यमरः (अ.को.1|10|16)। तैः, अपकृष्टनक्रामपनीतग्राहां तां सरयूं श्रीमहिम्नोः संपत्प्रभावयोरनुरूपं योग्यं यथा तथा विगाहितुं प्रचक्रेमे। अत्र कामन्दकः-`परितापिषु वासरेषु पश्यंस्तटलेखास्थितमाप्तसैन्यचक्रम्। सुविशोधितनक्रमीनजालं व्यवगाहेत जलं सुहृत्समेतः॥` इति ॥
RV 16.56 उपजातिः
सा तीरसोपानपथावतारादन्योन्यकेयूरविघट्टिनीभिः । सनूपुरक्षोभपदाभिरासीदुद्विग्नहंसा सरिदङ्गनाभिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सेति॥ सा सरित् सरयूः। तीरसोपानपथेनावतारादवतरणादन्योन्यं केयूरविघट्टिनीभिः संनद्धाङ्गदसंघर्षिणीभिः सनूपुरक्षोभाणि सनूपुरस्खलनानि पदानि यासां ताभिरङ्गनाभिर्हेतुभिरुद्विग्नहंसा भीतहंसाऽऽसीत् ॥
RV 16.57 उपजातिः
परस्पराभ्युक्षणतत्पराणां तासां नृपो मज्जनरागदर्शी । नौसंश्रयः पार्श्वगतां किरातीमुपात्तबालव्यजनां बभाषे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): परस्परेति॥ नौसंश्रयः परस्परमभ्युक्षणे सेचने तत्पराणामासक्तानां तासां स्त्रीणां मज्जने रागोऽभिलाषस्तद्दर्शी नृपः पार्श्वगतामुपात्तबालव्यजनां गृहीतचामरां किरातीं चामरग्राहिणीं बभाषे। `किरातस्तु द्रुमान्तरे। स्त्रियां चामरवाहिन्यां मत्स्यजात्यन्तरे द्वयोः` इति केशवः ॥
RV 16.58 उपजातिः
पश्यावरोधैः शतशो मदीयैर्विगाह्यमानो गलिताङ्गरागैः । संध्योदयः साभ्र इवैष वर्णं पुष्यत्यनेकं सरयूप्रवाहः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पश्येति॥ गलिताङ्गरागैर्मदीयैः शतशोऽवरोधैर्विगाह्यमानो विलोङ्यमान एष सरयूप्रवाहः। साभ्रः समेघः संध्योदयः संध्याविर्भाव इव। अनेकं नानाविधं वर्णं रक्तपीतादिकं पुष्यति पश्य। वाक्यार्थः कर्म ॥
RV 16.59 उपजातिः
विलुप्तमन्तः पुरसुन्दरीणां यदञ्जनं नौलिलिताभिरद्भिः । तद्बध्नतीभिर्मदरागशोभां विलोचनेषु प्रतिमुक्तमासाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): विलुप्तमिति॥ नौलुलिताभिर्नौक्षुभिताभिरद्भिः। अन्तःपुरसुन्दरीणां यदञ्जनं कज्जलं विलुप्तं हृतं तदञ्जनं विलोचनेषु नयनेषु मदेन या रागशोभा तां बध्नतीभिर्घटयन्तीभिरद्भिरासां प्रतिमुक्तं प्रत्यर्पितम्। प्रतिनिधिदानमपि तत्कार्यकारित्वात्प्रत्यर्पणमेवेति भावः ॥
RV 16.60 इन्द्रवज्रा
एता गुरुश्रोणिपयोधरत्वादात्मानमुद्धोढुमशक्नुवत्यः । गाढाङ्गदैर्बाहुभिरप्सु बालाः क्लेशोत्तरं रागवशात्प्लवन्ते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): एता इति॥ गुरु दुर्वहं श्रोणिपयोधरं यस्यात्मन इति विग्रः। गुरुश्रोमिपयोधरत्वादात्मानं शरीरमुद्धोढुमशक्नुवत्य एता बाला गाढाङ्गदैः श्लिष्टाङ्गदैर्बाहुभिः क्लेशोत्तरं दुःखप्रायं यद्या तथा रागवशात् क्रीडाभिनिवेशपारतन्त्र्यात्। प्लवन्ते तरन्ति ॥
← Previous (Ch. 15) Full Table of Contents Next (Ch. 17) →