Skip to main content
Search
Ch. 16 RV 16.87
Full Chapter
RV • Chapter 16: Canto 16

RV 16.87

Canonical Ref: RV 16.87
Metrical Form: मन्दाक्रान्ता
Sanskrit (Devanāgarī)
तस्याः स्पृष्टे मनुजपतिना साहचर्याय हस्ते माङ्गल्योर्णावलयिनि पुरः पावकस्योच्छिखस्य । दिव्यस्तूर्यध्वनिरुदचरद्व्यश्नुवानो दिगन्ता न्ग्धोदग्रं तदनु ववृषुः पुष्पमाश्चर्यमेघाः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तस्या इति॥ मनुजपतिना कुशेन साहचर्याय। सहधर्माचरणायेत्यर्थः। माङ्गल्या मङ्गले साधुर्या ऊर्णा मेषादिलोम। `ऊर्णा मेषादिलोम्नि स्यात्` इत्यमरः (अ.को.3|3|56)। अत्र लक्षणया तन्निर्मितं सूत्रमुच्यते। तया वलयिनि वलयवति तस्याः कुमुद्वत्या हस्ते पाणावुच्छिखस्योदर्चिषः पावकस्य पुरोऽग्रे स्पृष्टे गृहीते सति दिगन्तान् व्यश्नुवानो व्याप्नुवन्। दिव्यस्तूर्यध्वनिरुदचरदुत्थितः। तदन्वाश्चर्या अद्भुता मेघा गन्धेनोदग्रमुत्कटं पुष्पं पुष्पाणि। जात्यभिप्रायेणैकवचनम्। ववृषुः। `आश्चर्य` शब्दस्य `रौद्रं तूग्रममी त्रिषु। चतुर्दश` इत्यमरवचनात्त्रिलिङ्गत्वम् ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 16.87. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 16.86) All Verses in Chapter 16 Next Verse (RV 16.88) →