Skip to main content
Search
Ch. 16 RV 16.88
Full Chapter
RV • Chapter 16: Canto 16

RV 16.88

Canonical Ref: RV 16.88
Metrical Form: मन्दाक्रान्ता
Sanskrit (Devanāgarī)
इत्थं नागस्त्रिभुवनगुरोरौरसं मैथिलेयं लब्ध्वा बन्धुं तमपि च कुशः पञ्चमं तक्षकस्य । एकः शङ्कां पितृवधरिपोरत्यजद्वैनतेया च्छान्तव्यालामवनिमपरः पौरकान्तः शशास ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): इत्थमिति॥ इत्थं नागः कुमुदः। त्रयाणां भुवनानां समाहारस्त्रिभुवनम्। `तद्धितार्थ-` (पा.2।1।51) इत्यादिना तत्पुरुषः। अदन्तद्विगुत्वेऽपि पात्राद्यन्तत्वान्नपुंसकत्वम्। `पात्राद्यन्तैरनेकार्थो द्विगुर्लक्ष्यानुसारतः` इत्यमरः। तस्य गुरूरामः। तस्यौरसं धर्मपत्नीजं पुत्रम्। `औरसो धर्मपत्नीजः`(2।128) इति याज्ञवल्क्यः। मैथिलेयं कुशं बन्धुं लब्ध्वा कुशोऽपि च तक्षकस्य पञ्चमं पुत्रं तं कुमुदं बन्धुं लब्ध्वा। एकस्तयोरन्यतरः कुमुदः पितृवधेन रिपौर्वैनतेयाद्गरुडात्। गुरुणा वैष्णवांशेन कुशेन त्याजितक्रौर्यादिति भावः। शङ्कां भयमत्यजत्। अपरः कुशः शान्तव्यालां कुमुदाज्ञया वीतसर्पभयामवनिमत एव पौरकान्तः पौरप्रियः सन्। शशास ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 16.88. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 16.87) All Verses in Chapter 16 Next Verse (RV 17.1) →