Skip to main content
Search
Ch. 16 RV 16.86
Full Chapter
RV • Chapter 16: Canto 16

RV 16.86

Canonical Ref: RV 16.86
Metrical Form: वसन्ततिलका
Sanskrit (Devanāgarī)
इत्यूचिवानुपहृताभरणः क्षितीशं श्लाघ्यो भवान्स्वजन इत्यनुभाषितारम् । संयोजयां विधिवदास समेतबन्धुः कन्यामयेन कुमुदः कुलभूषणेन ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): इतीति॥ इति पूर्वश्लोकोक्तम्। ऊचिवानुक्तवान्। ब्रुवः क्वसुः। उपहृताभरणः प्रत्यर्पिताभरणः कुमुदः। हे कुमुद! भवाञ्श्लाघ्यः स्वजनो बन्धुः। इत्यनुभाषितारमनुवक्तारं क्षितीशं कुशं समेतबन्धुर्युक्तबन्धुः सन् कन्यामयेन कन्यारूपेण कुलयोर्भूषणेन विधिवत्संयोजयामास। न केवलं तदीयमेव किंतु स्वकीयमपि भूषणं तस्मै दत्तवानिति ध्वनिः। आम्प्रत्ययानुप्रयोगयोर्व्यवधानं तु प्रागेव समाहितम् ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 16.86. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 16.85) All Verses in Chapter 16 Next Verse (RV 16.87) →