Skip to main content
Search
Ch. 16 RV 16.85
Full Chapter
RV • Chapter 16: Canto 16

RV 16.85

Canonical Ref: RV 16.85
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
इमां स्वसारं च यवीयसीं मे कुमुद्वतीं नार्हसि नानुमन्तुम् । आत्मापराधं नुदतीं चिराय शुश्रूषया पार्थिव! पादयोस्ते ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): इमामिति॥ किंच, हे पार्थिव! ते तव पादयोश्चिराय शुश्रूषया परिचर्यया। `शुश्रूषा श्रोतुमिच्छायां परिचर्याप्रदानयोः` इति विश्वः। आत्मापराधमाभरणग्रहणरूपं नुदतीम्। परिजिहीर्षन्तीमित्यर्थः। `आशंसायां भूतवञ्च` (पा.3।3।132) इति चकाराद्वर्तमानार्थे शतृप्रत्ययः। `आच्छीनद्योर्नुप्` (पा.7।1।80) इत्यस्य वैकल्पिकत्वान्नुमभावः। इमां मे यवीयसीं कनिष्ठां स्वसारं भगिनीं कुमुद्वतीमनुमन्तुं नार्हसीति न। अर्हस्येवेत्यर्थः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 16.85. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 16.84) All Verses in Chapter 16 Next Verse (RV 16.86) →