Skip to main content
Search
Ch. 16 RV 16.63
Full Chapter
RV • Chapter 16: Canto 16

RV 16.63

Canonical Ref: RV 16.63
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
आवर्तशोभा नतनाभिकान्तेर्भङ्गो भ्रुवां द्वन्द्वचराः स्तनानाम् । जातानि रूपावयवोपमानान्यदूरवर्तीनि विलासिनीनाम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): आवर्तेति॥ विलासिनीनां विलसनशीलानां स्त्रीणाम्। `वौ कषलसकत्थस्नम्भः` (पा.3।2।143) इति घिनुण्प्रत्ययः। रूपावयवानामुपमेयानां यान्युपमानानि लोकप्रसिद्धानि तान्यदूरवर्तीन्यन्तिकगतानि जातानि। कस्य किमुपमानमित्यत्राह-नतनाभिकान्तेर्निम्ननाभिशोभाया आवर्तशोभा। `स्यादावर्तोऽम्भसां भ्रमः` इत्यमरः (अ.को.1|10|6)। भ्रुवां भङ्गस्तरंगः। स्तनानां द्वन्द्वचराश्चक्रवाकाः। `उपमानम्` इति सर्वत्र संबध्यते ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 16.63. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 16.62) All Verses in Chapter 16 Next Verse (RV 16.64) →