Skip to main content
Search
Ch. 16 RV 16.64
Full Chapter
RV • Chapter 16: Canto 16

RV 16.64

Canonical Ref: RV 16.64
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
तीरस्थलीबर्हिभिरुत्कलापैः प्रस्निग्धकेकैरभिनन्द्यमानम् । श्रोत्रषु संमूर्च्छति रक्तमासां गीतानुगं वारिमृदङ्गवाद्यम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तीरेति॥ उत्कलापैरुञ्चबर्हैः प्रस्निग्धा मधुराः केका येषां तैः। तीरस्थलीषु स्थितैर्बर्हिभिर्मयूरैरभिनन्द्यमानं रक्तं श्राव्यं गीतानुगं गीतानुसारि। आसां स्त्रीणां संबन्धि। वार्येव मृदङ्गस्तस्य वाद्यं वाद्यध्वनिः श्रोत्रेषु संमूर्च्छति व्याप्नोति ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 16.64. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 16.63) All Verses in Chapter 16 Next Verse (RV 16.65) →