Skip to main content
Search
Ch. 16 RV 16.62
Full Chapter
RV • Chapter 16: Canto 16

RV 16.62

Canonical Ref: RV 16.62
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
आसां जलास्फालनतत्पराणां मुक्ताफलस्पर्धिषु शीकरेषु । पयोधरोत्सर्पिषु शीर्यमाणः संलक्ष्यते न ञ्छिदुरोऽपि हारः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): आसामिति॥ जलस्यास्फालने तत्पराणामासक्तानामासां स्त्रीणां मुक्ताफसस्पर्धिषु मौक्तिकानुकारिषु पयोधरेषु स्तनेषूत्सर्पन्त्युत्पतन्ति ये तेषु शीकरेषु शीकराणां मध्ये शीर्यमाणो गलन् हारोऽत एव छिदुरः स्वयं छिन्नोऽपि न संलक्ष्यते। `विदिभिदिच्छिदेः कुरच्` (पा.3।2।162) इति कुरच्प्रत्ययः। शीकरसंसर्गाच्छिन्न इति न ज्ञायत इति भावः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 16.62. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 16.61) All Verses in Chapter 16 Next Verse (RV 16.63) →