Skip to main content
Search
Ch. 16 RV 16.61
Full Chapter
RV • Chapter 16: Canto 16

RV 16.61

Canonical Ref: RV 16.61
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
अमी शिरीषप्रसवावतंसाः प्रभ्रंशिनो वारिविहारिणीनाम् । पारिप्लवाः स्रोतसि निम्नगायाः शैवाललोलांश्छलयन्तिमीनान् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): अमी इति॥ वारिविहारिणीनामासां प्रभ्रंशिनो भ्रष्टा निम्नगायाः स्रोतसि पारिप्ववाश्चञ्चलाः। `चञ्चलं तरलं चैव पारिप्लवपरिप्लवे` इत्यमरः। अमी शिरीषप्रसवा एवावतंसाः कर्णभूषा शैवाललोलाञ्जलनीलिप्रियान्। `जलनीली तु शैवालम्` इत्यमरः। मीनांश्छलयन्ति प्रादुर्भावयन्ति। शैवालप्रियत्वाच्छिरीषेषु शैवालभ्रमात्प्रादुर्भवन्तीत्यर्थः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 16.61. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 16.60) All Verses in Chapter 16 Next Verse (RV 16.62) →