Skip to main content
Search
Ch. 1 RV 1.59
Full Chapter
RV • Chapter 1: Canto 1

RV 1.59

Canonical Ref: RV 1.59
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
अथाथर्वनिधेस्तस्य विजितारिपुरः पुरः । अर्थ्यामर्थपतिर्वाचमाददे वदतां वरः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ प्रश्नानन्तरं विजितारिपुरो विजितशत्रुनगरो वदतां वक्तॄणां वरः श्रेष्ठः। `यतश्चनिर्धारणम्` (पा.2।3।41) इति षष्टी। अर्थपती राजाथर्वणोऽथर्ववेदस्य निधेस्तस्य मुनेः पुरोऽग्रेऽर्थ्यामर्थामर्थादनपेताम्। `धर्मपथ्यर्थन्यायादनपेते` (पा.4।4।92) इति यप्रत्ययः। वाचमादहे वक्तुमुपक्रान्तवानित्यर्थथः। `अथर्वनिधेः` इत्यनेन पुरोहितकृत्याभिज्ञत्वात्तत्कर्मनिर्वाहकत्वं मुनेरस्तीति सूच्यते। यथाह कामन्दकः-`त्रय्यां च दण्डनीत्यां च कुशलः स्यात्पुरोहितः । अथर्वविहितं कुर्यान्नित्यं शान्तिकपौष्टिकम् ॥ ` इति ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 1.59. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 1.58) All Verses in Chapter 1 Next Verse (RV 1.60) →