Skip to main content
Search
Ch. 1 RV 1.58
Full Chapter
RV • Chapter 1: Canto 1

RV 1.58

Canonical Ref: RV 1.58
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
तमातिथ्यक्रियाशान्तरथक्षोभपरिश्रमम् । पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ मुनिः। अतिथ्यर्थमातिथ्यम्। `अतिथेर्ञ्यः` (पा.5।4।26) इति ञ्यप्रत्ययः। आतिथ्यस्य क्रिया तया शान्तो रथक्षोभेण यः परिश्रमः स यस्य स तं तथोक्तम्। राज्यमेवाश्रमस्तत्र मुनिम्। मुनितुल्यमित्यर्थः। तं दिलीपं राज्ये कुशलं पप्रच्छ। पृच्छतेस्तु द्विकर्मकत्वमित्युक्तम्। यद्यपि `राज्य` शब्दः पुरोहितादिष्वन्तर्गतत्वाद्राजकर्मवचनः, तथाप्यत्र सप्ताङ्गवचनः, `उपपन्नं ननु शिवं सप्तस्वङ्गेषु`(1।60)इत्युत्तरविरोधात्। तथाह मनुः(9।194)- `स्वाम्यमात्यपुरं राष्ट्रं कोशदण्डौ तथा सुह्रृत्। सप्तैतानि समस्तानि लोकेऽस्मिन्राज्यमुच्यते॥` इति। तत्र `ब्रह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयम्। वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ॥` (2।127) इति मनुवचने सत्यपि तस्य राज्ञो महानुभावत्वाह्ब्राह्मणोचितः कुशलप्रश्न एव कृत इत्यनुसंधेयम्। अत एवोक्तम्-`राज्याश्रममुनिम्`इति ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 1.58. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 1.57) All Verses in Chapter 1 Next Verse (RV 1.59) →