Skip to main content
Search
Ch. 1 RV 1.57
Full Chapter
RV • Chapter 1: Canto 1

RV 1.57

Canonical Ref: RV 1.57
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
तयोर्जगृहतुः पादान्राजा राज्ञी च मागधी । तौ गुरुर्गुरुपत्नी च प्रीत्या प्रतिननन्दतुः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तयोरिति॥ मागधी मगधराजपुत्री राज्ञी सुदक्षिणा राजा च तयोररुन्धतीवसिष्ठयोः पादाञ्जगृहतुः। `पादः पदङ्गिश्चरणो।ञस्त्रियाम` इत्यमरः। पादग्रहणमभिवादनम्। गुरुपत्नी गुरुश्च कर्तारौ सा च स च तौ सुदक्षिणादिलीपौ कर्मभूतौ प्रीत्या हर्षेण प्रतिननन्दतुः। आशीर्वदादिभिः संभावयांचक्रतुरित्यर्थः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 1.57. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 1.56) All Verses in Chapter 1 Next Verse (RV 1.58) →