Skip to main content
Search
Ch. 1 RV 1.56
Full Chapter
RV • Chapter 1: Canto 1

RV 1.56

Canonical Ref: RV 1.56
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
विधेः सायंतनस्यान्ते स ददर्श तपोनिधिम् । अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): विधेरिति॥ स राजा सांयंतनस्य सायंभवस्य। `सायंचिरम्-` (पा.4।3।23) इत्यादिना ट्युल्प्रत्ययः। विधेर्जपहोमाद्यनुष्ठानस्य। अन्तेऽवसानेऽरुन्धत्यान्वासितं पश्चादुपवेशनेनोपसेवितम्। कर्मणि क्तः। उपसर्गवशात्सकर्मकत्वम्। `अन्वास्यैनाम्` इत्यादिवदुपपद्यते। तपोनिधिं वसिष्टम्। स्वाहया स्वाहादेव्या। `अथाग्नायी स्वाहा च हुतभुक्प्रिया` इत्यमरः (अ.को.2|7|23)। अन्वासितं हविर्भुजमिव। ददर्श। `समित्पुष्पकुशागन्यम्बुमृदन्नाक्षतपाणिकः। जपं होमं च कुर्वाणो नाभिवाद्यो द्विजो भवेत् ॥` इत्यनुष्टानस्य मध्येऽभिवादननिषेधाद्विधेरन्ते ददर्शेत्युक्तम्। अन्वासितं चात्र पतिव्रताधर्मत्वेनोक्तं न तु कर्माङ्गत्वेन। `विधेरन्ते` इति कर्मणः समाप्त्यभिधानात् ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 1.56. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 1.55) All Verses in Chapter 1 Next Verse (RV 1.57) →