Skip to main content
Search
Ch. 1 RV 1.55
Full Chapter
RV • Chapter 1: Canto 1

RV 1.55

Canonical Ref: RV 1.55
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
तस्मै सभ्याः सभार्याय गोप्त्रे गुप्ततमेन्द्रियाः । अर्हणामर्हते चक्रुर्मुनयो नयचक्षुषे ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तस्मा इति॥ सभायां साधवः सभ्याः। `सभाया यः` (पा.4।4।104) इति यप्रत्ययः। गुप्ततमेन्द्रियाः अत्यन्तनियमितेन्द्रियाः। मुनयः सभार्याय गोप्त्रे रक्षकाय। नयः शास्त्रमेव चक्षुस्तत्त्वावेदकं प्रमाणं यस्य तस्मै नयचक्षुषे। अत एवार्हते प्रशस्ताय। पूज्यायेत्यर्थः। `अर्हः प्रशंसायाम्` (पा.3।2।133) इति शतृप्रत्ययः। तस्मै राज्ञेऽर्हणां पूजां चक्रुः। `पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः` इत्यमरः (अ.को.2|7|37) ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 1.55. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 1.54) All Verses in Chapter 1 Next Verse (RV 1.56) →