Skip to main content
Search
Ch. 1 RV 1.60
Full Chapter
RV • Chapter 1: Canto 1

RV 1.60

Canonical Ref: RV 1.60
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे । दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): उपपन्नमिति॥ हे गुरो! सप्तस्वङ्गेषु स्वाम्यमात्यादिषु । `स्वाम्यमात्यसुहृत्कोषराष्ट्रदुर्गबलानि च । सप्ताङ्गानि` इत्यमरः (अ.को.3|3|263)। शिवं कुशलमुपपन्नं ननु युक्तमेव। नन्ववधारणे। `प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु` इत्यमरः (अ.को.3|3|263)। कथमित्यत्राह-यस्य मे दैवीनां देवेभ्य आगतानां दुर्भिक्षादीनाम्, मानुषीणां मनुष्येभ्य आगतानां चौरभयादीनाम्। उभयत्रापि `तत आगतः` (पा.4।3।74)इत्यण्। `टिड्ढाणञ्-` (पा.4।1।15) इत्यादिना ङीप्। आपदां व्यसनानां त्वं प्रतिहर्ता वारयिताऽसि। अत्राह कामन्दकः-`हुताशनो जलं व्याधिर्दुर्भिक्षं मरणं तथा। इति पञ्चविधं दैवं मानुषं व्यसनं ततः ॥ आयुक्तकेभ्यश्चौरेभ्यः परेभ्यो राजवल्लभात्। पृथिवीपतिलोभाञ्च नराणां पञ्चधा मतम् ॥`इति ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 1.60. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 1.59) All Verses in Chapter 1 Next Verse (RV 1.61) →