Skip to main content
Search
Ch. 1 RV 1.48
Full Chapter
RV • Chapter 1: Canto 1

RV 1.48

Canonical Ref: RV 1.48
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
स दुष्प्रापयशाः प्रापदाश्रमं श्रान्तवाहनः । सायं संयमिनस्तस्य महर्षेर्महिषीसखः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ दुष्प्रापयशा दुष्प्रापमन्यदुर्लभं यशो यस्य स तथोक्तः। श्रान्तवाहनो दूरोपगमनात्क्लान्तयुग्यः। महिष्याः सखा महिषीसखः। `राजाहःसखिभ्यष्टच` (पा.5।4।91)इति टच्प्रत्ययः। सहायान्तरनिरपेक्ष इति भावः। स राजा सायं सायंकाले संयमिनो नियमवतस्तस्य महर्षेर्वसिष्ठस्याश्रमं प्रापत् प्राप। पुषादित्वादङ् ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 1.48. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 1.47) All Verses in Chapter 1 Next Verse (RV 1.49) →