Skip to main content
Search
Ch. 1 RV 1.47
Full Chapter
RV • Chapter 1: Canto 1

RV 1.47

Canonical Ref: RV 1.47
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
तत्तद्भूमिपतिः पत्न्यै दर्शयन्प्रियदर्शनः । अपि लङ्घितमध्वानं बुबुधे न बुधोपमः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तत्तदिति॥ प्रियं दर्शनं स्वकर्मकं यस्यासौ प्रियदर्शनः। दर्शनीय इत्यर्थः। भूमिपतिः पत्न्यै तत्तदद्भुतं वस्तु दर्शयन्, लङ्घितमतिवाहितमप्यध्वानं न बुबुधे न ज्ञातवान्। बुधः सौम्य उपमोपमानं यस्येति विग्रहः । इदं विशेषणं तत्तद्दर्शयन्नित्युपयोगितयैतस्य ज्ञातृत्वसूचनार्थम् ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 1.47. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 1.46) All Verses in Chapter 1 Next Verse (RV 1.48) →