Skip to main content
Search
Ch. 1 RV 1.49
Full Chapter
RV • Chapter 1: Canto 1

RV 1.49

Canonical Ref: RV 1.49
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
वनान्तरादुपावृत्तैः समित्कुशफलाहरैः । पूर्यमाणमदृश्याग्रिप्रत्युद्यातैस्तपस्विभिः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): वनान्तरादिति॥ वनान्तरादन्यस्माद्वनात् उपावृत्तैः प्रत्यागतैः। समिधश्च कुशांश्च फलानि चाहर्तुं शीलं येषामिति समित्कुशफलाहराः, तैः। `आङिताच्छील्ये` (पा.3।2।11) इति हरतेराङ्पूर्वादच्प्रत्ययः। अदृश्यैर्दर्शनायोग्यैरग्निभिर्वैतानिकैः प्रत्युद्याताः प्रत्युद्गताः। तैस्तपस्विभिः पूर्यमाणम्। `प्रोष्यागच्छतामाहिताग्नीनामग्नयः प्रत्युद्यान्ति` इति श्रुतेः। यथाह-`कामं पितरं प्रोषितवन्तं पुत्राः प्रत्याधावन्ति, एव ह वा एवमेतग्नयः प्रत्याधावन्ति सशकलान्दारूनिवाहरन्` इति॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 1.49. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 1.48) All Verses in Chapter 1 Next Verse (RV 1.50) →