Skip to main content
Search
NS
Nāṭyaśāstra • Chapter 02

Maṇḍapa Vidhāna (Nāṭyagṛha Nirūpaṇa)

मण्डपविधानम्

Systematic architectural treatise describing measurement units (Hasta, Daṇḍa), sacred geometry, and nine playhouse configurations across three shapes (Vikṛṣṭa rectangular, Caturasra square, Tryasra triangular) and three scale gradations (Jyeṣṭha, Madhya, Avara).

Total: 112 Verses • Citations: NS 2.1–112 • 31 Lexicon Terms • Page 1 of 4 (Verses 30 shown)
NS 2.p1 Prose (Gadya)
अथ भारतीये नाट्यशास्त्रे द्वितीयोऽध्यायः
atha bhāratīye nāṭyaśāstre dvitīyo'dhyāyaḥ
NS 2.1 अनुष्टुप्
भरतस्य वचः श्रुत्वा पप्रच्छुर्मुनयस्ततः । भगवन्श्रोतुमिच्छामो यजनं रङ्गसंश्रयम् ॥
bharatasya vacaḥ śrutvā papracchurmunayastataḥ । bhagavanśrotumicchāmo yajanaṃ raṅgasaṃśrayam ॥
NS 2.2 अनुष्टुप्
अथ वा या क्रियास्तत्र लक्षणं यच्च पूजनम् । भविष्यद्भिर्नरैः कार्यं कथं तन्नाट्यवेश्मनि ॥
atha vā yā kriyāstatra lakṣaṇaṃ yacca pūjanam । bhaviṣyadbhirnaraiḥ kāryaṃ kathaṃ tannāṭyaveśmani ॥
NS 2.3 अनुष्टुप्
इहादिर्नाट्ययोगस्य नाट्यमण्डप एव हि । तस्मात्तस्यैव तावत्त्वं लक्षणं वक्तुमर्हसि ॥
ihādirnāṭyayogasya nāṭyamaṇḍapa eva hi । tasmāttasyaiva tāvattvaṃ lakṣaṇaṃ vaktumarhasi ॥
NS 2.4 अनुष्टुप्
तेषां तु वचनं श्रुत्वा मुनीनां भरतोऽब्रवीत् । लक्षणं पूजनं चैव श्रूयतां नाट्यवेश्मनः ॥
teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato'bravīt । lakṣaṇaṃ pūjanaṃ caiva śrūyatāṃ nāṭyaveśmanaḥ ॥
NS 2.5 उपजातिः
दिव्यानां मानसी सृष्टिर्गृहेषूपवनेषु च । (यथा भावाभिनिर्वर्त्याः सर्वे भावास्तु मानुषाः) । नराणां यत्नतः कार्या लक्षणाभिहिता क्रिया ॥
divyānāṃ mānasī sṛṣṭirgṛheṣūpavaneṣu ca । (yathā bhāvābhinirvartyāḥ sarve bhāvāstu mānuṣāḥ) । narāṇāṃ yatnataḥ kāryā lakṣaṇābhihitā kriyā ॥
NS 2.6 अनुष्टुप्
श्रूयतां तद्यथा यत्र कर्तव्यो नाट्यमण्डपः । तस्य वास्तु च पूजा च यथा योज्या प्रयत्नतः ॥
śrūyatāṃ tadyathā yatra kartavyo nāṭyamaṇḍapaḥ । tasya vāstu ca pūjā ca yathā yojyā prayatnataḥ ॥
NS 2.7 अनुष्टुप्
इह प्रेक्ष्यागृहं दृष्ट्वा धीमता विश्वकर्मणा । त्रिविधः सन्निवेशश्च शास्त्रतः परिकल्पितः ॥
iha prekṣyāgṛhaṃ dṛṣṭvā dhīmatā viśvakarmaṇā । trividhaḥ sanniveśaśca śāstrataḥ parikalpitaḥ ॥
NS 2.8 अनुष्टुप्
विकृष्टश्चतुरश्रश्च त्र्यश्रश्चैव तु मण्डपः । तेषां त्रीणि प्रमाणानि ज्येष्ठं मध्यं तथाऽवरम् ॥
vikṛṣṭaścaturaśraśca tryaśraścaiva tu maṇḍapaḥ । teṣāṃ trīṇi pramāṇāni jyeṣṭhaṃ madhyaṃ tathā'varam ॥
NS 2.9 अनुष्टुप्
प्रमाणमेषां निर्दिष्टं हस्तदण्डसमाश्रयम् । शतं चाष्टौ चतुःषष्टिर्हस्ता द्वात्रिंशदेव च ॥
pramāṇameṣāṃ nirdiṣṭaṃ hastadaṇḍasamāśrayam । śataṃ cāṣṭau catuḥṣaṣṭirhastā dvātriṃśadeva ca ॥
NS 2.10 अनुष्टुप्
अष्टाधिकं शतं ज्येष्ठं चतुःषष्टिस्तु मध्यमम् । कनीयस्तु तथा वेश्म हस्ता द्वात्रिंशदिष्यते ॥
aṣṭādhikaṃ śataṃ jyeṣṭhaṃ catuḥṣaṣṭistu madhyamam । kanīyastu tathā veśma hastā dvātriṃśadiṣyate ॥
NS 2.11a अनुष्टुप्
देवानां तु भवेज्ज्येष्ठं नृपाणां मध्यमं भवेत् । शेषाणां प्रकृतीनां तु कनीयः संविधीयते ॥
devānāṃ tu bhavejjyeṣṭhaṃ nṛpāṇāṃ madhyamaṃ bhavet । śeṣāṇāṃ prakṛtīnāṃ tu kanīyaḥ saṃvidhīyate ॥
NS 2.11b अनुष्टुप्
प्रेक्षागृहाणां सर्वेषां प्रशस्तं मध्यमं स्मृतम् । तत्र पाठ्यं च गेयं च सुखश्राव्यतरं भवेत् ॥
prekṣāgṛhāṇāṃ sarveṣāṃ praśastaṃ madhyamaṃ smṛtam । tatra pāṭhyaṃ ca geyaṃ ca sukhaśrāvyataraṃ bhavet ॥
NS 2.11c अनुष्टुप्
प्रेक्षागृहाणां सर्वेषां त्रिप्रकारो विधिः स्मृतः । विकृष्टश्चतुरस्रश्च त्र्यस्रश्चैव प्रयोक्तृभिः ॥
prekṣāgṛhāṇāṃ sarveṣāṃ triprakāro vidhiḥ smṛtaḥ । vikṛṣṭaścaturasraśca tryasraścaiva prayoktṛbhiḥ ॥
NS 2.11d अनुष्टुप्
कनीयस्तु स्मृतं त्र्यस्रं चतुरस्रं तु मध्यमम् । ज्येष्ठं विकृष्टं विज्ञेयं नाट्यवेदप्रयोक्तृभिः ॥
kanīyastu smṛtaṃ tryasraṃ caturasraṃ tu madhyamam । jyeṣṭhaṃ vikṛṣṭaṃ vijñeyaṃ nāṭyavedaprayoktṛbhiḥ ॥
NS 2.12 अनुष्टुप्
प्रमाणं यच्च निर्दिष्टं लक्षणं विश्वकर्मणा । प्रेक्षागृहाणां सर्वेषां तच्चैव हि निबोधत ॥
pramāṇaṃ yacca nirdiṣṭaṃ lakṣaṇaṃ viśvakarmaṇā । prekṣāgṛhāṇāṃ sarveṣāṃ taccaiva hi nibodhata ॥
NS 2.13 अनुष्टुप्
अणू रजश्च वालश्च लिक्षा यूका यवस्तथा ।अङ्गुलं च तथा हस्तो दण्डश्चैव प्रकीर्तितः ॥
aṇū rajaśca vālaśca likṣā yūkā yavastathā ।aṅgulaṃ ca tathā hasto daṇḍaścaiva prakīrtitaḥ ॥
NS 2.14 अनुष्टुप्
अणवोऽष्टौ रजः प्रोक्तं तान्यष्टौ वाल उच्यते । वालास्त्वष्टौ भवेल्लिक्षा यूका लिक्षाष्टकं भवेत् ॥
aṇavo'ṣṭau rajaḥ proktaṃ tānyaṣṭau vāla ucyate । vālāstvaṣṭau bhavellikṣā yūkā likṣāṣṭakaṃ bhavet ॥
NS 2.15 अनुष्टुप्
यूकास्त्वष्टौ यवो ज्ञेयो यवास्त्वष्टौ तथाङ्गुलम् ।अङ्गुलानि तथा हस्तश्चतुर्विंशतिरुच्यते ॥
yūkāstvaṣṭau yavo jñeyo yavāstvaṣṭau tathāṅgulam ।aṅgulāni tathā hastaścaturviṃśatirucyate ॥
NS 2.16 अनुष्टुप्
चतुर्हस्तो भवेद्दण्डो निर्दिष्टस्तु प्रमाणतः ।अनेनैव प्रमाणेन वक्ष्याम्येषां विनिर्णयम् ॥
caturhasto bhaveddaṇḍo nirdiṣṭastu pramāṇataḥ ।anenaiva pramāṇena vakṣyāmyeṣāṃ vinirṇayam ॥
NS 2.17 अनुष्टुप्
चतुःषष्टिकरान्कुर्याद्दीर्घत्वेन तु मण्डपम् । द्वात्रिंशतं च विस्तारन्मर्त्यानां यो भवेदिह ॥
catuḥṣaṣṭikarānkuryāddīrghatvena tu maṇḍapam । dvātriṃśataṃ ca vistāranmartyānāṃ yo bhavediha ॥
NS 2.18 अनुष्टुप्
अत ऊर्ध्वं न कर्तव्यः कर्तृभिर्नाट्यमण्डपः । यस्मादव्यक्तभावं हि तत्र नाट्यं व्रजेदिति ॥
ata ūrdhvaṃ na kartavyaḥ kartṛbhirnāṭyamaṇḍapaḥ । yasmādavyaktabhāvaṃ hi tatra nāṭyaṃ vrajediti ॥
NS 2.19 अनुष्टुप्
मण्डपे विप्रकृष्टे तु पाठ्यमुच्चारितस्वरम् ।अनिस्सरणधर्मत्वाद्विस्वरत्वं भृशं व्रजेत् ॥
maṇḍape viprakṛṣṭe tu pāṭhyamuccāritasvaram ।anissaraṇadharmatvādvisvaratvaṃ bhṛśaṃ vrajet ॥
NS 2.20 अनुष्टुप्
यश्चाप्यास्यगतो भावो नानादृष्टिसमन्वितः स वेश्मनः प्रकृष्टत्वाद्व्रजेदव्यक्ततां पराम् ॥
yaścāpyāsyagato bhāvo nānādṛṣṭisamanvitaḥ sa veśmanaḥ prakṛṣṭatvādvrajedavyaktatāṃ parām ॥
NS 2.21a अनुष्टुप्
प्रेक्षागृहाणां सर्वेषां तस्मान्मध्यममिष्यते । यावत्पाठ्यं च गेयं च तत्र श्रव्यतरं भवेत् ॥
prekṣāgṛhāṇāṃ sarveṣāṃ tasmānmadhyamamiṣyate । yāvatpāṭhyaṃ ca geyaṃ ca tatra śravyataraṃ bhavet ॥
NS 2.21b अनुष्टुप्
प्रेक्षागृहाणां सर्वेषां त्रिप्रकारो विधिः स्मृतः । विकृष्टश्चतुरस्रश्च त्र्यस्रश्चैव प्रयोक्तृभिः ॥
prekṣāgṛhāṇāṃ sarveṣāṃ triprakāro vidhiḥ smṛtaḥ । vikṛṣṭaścaturasraśca tryasraścaiva prayoktṛbhiḥ ॥
NS 2.21c अनुष्टुप्
कनीयस्तु स्मृतं त्र्यस्रं चतुरस्रं तु मध्यमम् । ज्येष्ठं विकृष्टं विज्ञेयं नाट्यवेदप्रयोक्तृभिः ॥
kanīyastu smṛtaṃ tryasraṃ caturasraṃ tu madhyamam । jyeṣṭhaṃ vikṛṣṭaṃ vijñeyaṃ nāṭyavedaprayoktṛbhiḥ ॥
NS 2.22 अनुष्टुप्
देवानां मानसी सृष्टिर्गृहेषूपवनेषु च । यत्नभावाभिनिष्पन्नाः सर्वे भावा हि मानुषा ॥
devānāṃ mānasī sṛṣṭirgṛheṣūpavaneṣu ca । yatnabhāvābhiniṣpannāḥ sarve bhāvā hi mānuṣā ॥
NS 2.23 अनुष्टुप्
तस्माद्देवकृतैर्भावैर्न विस्पर्धेत मानुषः । मानुषस्य तु गेहस्य सम्प्रवक्ष्यामि लक्षणम् ॥
tasmāddevakṛtairbhāvairna vispardheta mānuṣaḥ । mānuṣasya tu gehasya sampravakṣyāmi lakṣaṇam ॥
NS 2.24 अनुष्टुप्
भूमेर्विभागं पूर्वं तु परीक्षेत प्रयोजक । ततो वास्तु प्रमाणेन प्रारभेत शुभेच्छया ॥
bhūmervibhāgaṃ pūrvaṃ tu parīkṣeta prayojaka । tato vāstu pramāṇena prārabheta śubhecchayā ॥
← Previous (Ch. 1) Full Table of Contents Next (Ch. 3) →