Skip to main content
Search
NS
Nāṭyaśāstra • Chapter 02

Maṇḍapa Vidhāna (Nāṭyagṛha Nirūpaṇa)

मण्डपविधानम्

Systematic architectural treatise describing measurement units (Hasta, Daṇḍa), sacred geometry, and nine playhouse configurations across three shapes (Vikṛṣṭa rectangular, Caturasra square, Tryasra triangular) and three scale gradations (Jyeṣṭha, Madhya, Avara).

Total: 112 Verses • Citations: NS 2.1–112 • 31 Lexicon Terms • Page 2 of 4 (Verses 30 shown)
NS 2.25 अनुष्टुप्
समा स्थिरा तु कठिना कृष्णा गौरी च या भवेत् । भूमिस्तत्रैव कर्तव्यः कर्तृभिर्नाट्यमण्डपः ॥
samā sthirā tu kaṭhinā kṛṣṇā gaurī ca yā bhavet । bhūmistatraiva kartavyaḥ kartṛbhirnāṭyamaṇḍapaḥ ॥
NS 2.26 अनुष्टुप्
प्रथमं शोधनं कृत्वा लाङ्गलेन समुत्कृषेत् ।अस्थिकीलकपालानि तृणगुल्मांश्च शोधयेत् ॥
prathamaṃ śodhanaṃ kṛtvā lāṅgalena samutkṛṣet ।asthikīlakapālāni tṛṇagulmāṃśca śodhayet ॥
NS 2.27 उपजातिः
शोधयित्वा वसुमतीं प्रमाणं निर्दिशेत्ततः । (त्रीण्युत्तराणि सौम्यं च विशाखापि च रेवती । हस्तितिष्यानुराधाश्च प्रशस्ता नाट्यकर्मणि) । पुष्यनक्षत्रयोगेन शुक्लं सूत्रं प्रसारयेत् ॥
śodhayitvā vasumatīṃ pramāṇaṃ nirdiśettataḥ । (trīṇyuttarāṇi saumyaṃ ca viśākhāpi ca revatī । hastitiṣyānurādhāśca praśastā nāṭyakarmaṇi) । puṣyanakṣatrayogena śuklaṃ sūtraṃ prasārayet ॥
NS 2.28 अनुष्टुप्
कार्पासं बाल्बजं वापि मौञ्जं वाल्कलमेव च । सूत्रं बुधैस्तु कर्तव्यं यस्य च्छेदो न विद्यते ॥
kārpāsaṃ bālbajaṃ vāpi mauñjaṃ vālkalameva ca । sūtraṃ budhaistu kartavyaṃ yasya cchedo na vidyate ॥
NS 2.29 अनुष्टुप्
अर्धच्छिन्ने भवेत्सूत्रे स्वामिनो मरणं ध्रुवम् । त्रिभागच्छिन्नया रज्वा राष्ट्रकोपो विधीयते ॥
ardhacchinne bhavetsūtre svāmino maraṇaṃ dhruvam । tribhāgacchinnayā rajvā rāṣṭrakopo vidhīyate ॥
NS 2.30 अनुष्टुप्
छिन्नायां तु चतुर्भागे प्रयोक्तुर्नाश उच्यते । हस्तात्प्रभ्रष्टया वापि कश्चित्वपचयो भवेत् ॥
chinnāyāṃ tu caturbhāge prayokturnāśa ucyate । hastātprabhraṣṭayā vāpi kaścitvapacayo bhavet ॥
NS 2.31 अनुष्टुप्
तस्मान्नित्यं प्रयत्नेन रज्जुग्रहणमिष्यते । कार्यं चैव प्रयत्नेन मानं नाट्यगृहस्य तु ॥
tasmānnityaṃ prayatnena rajjugrahaṇamiṣyate । kāryaṃ caiva prayatnena mānaṃ nāṭyagṛhasya tu ॥
NS 2.32 अनुष्टुप्
मुहूर्तेनानुकूलेन तिथ्या सुकरणेन च । ब्राह्मणांस्तर्पयित्वा तु पुण्याहं वाचयेत्ततः ॥
muhūrtenānukūlena tithyā sukaraṇena ca । brāhmaṇāṃstarpayitvā tu puṇyāhaṃ vācayettataḥ ॥
NS 2.33 अनुष्टुप्
शान्तितोयं ततो दत्त्वा ततः सूत्रं प्रसारयेत् । चतुष्षष्टिकरान्कृत्वा द्विधा कुर्यात्पुनश्च तान् ॥
śāntitoyaṃ tato dattvā tataḥ sūtraṃ prasārayet । catuṣṣaṣṭikarānkṛtvā dvidhā kuryātpunaśca tān ॥
NS 2.34 अनुष्टुप्
पृष्ठतो यो भवेद्भागो द्विधाभूतस्य तस्य तु । सममर्धविभागेन रङ्गशीर्षं प्रकल्पयेत् ॥
pṛṣṭhato yo bhavedbhāgo dvidhābhūtasya tasya tu । samamardhavibhāgena raṅgaśīrṣaṃ prakalpayet ॥
NS 2.35 अनुष्टुप्
पश्चिमे च विभागेऽथ नेपथ्यगृहमादिशेत् । विभज्य भागान्विधिवद्ययथावदनुपूर्वशः ॥
paścime ca vibhāge'tha nepathyagṛhamādiśet । vibhajya bhāgānvidhivadyayathāvadanupūrvaśaḥ ॥
NS 2.36 अनुष्टुप्
शुभे नक्षत्रयोगे च मण्डपस्य निवेशनम् । शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गपणवादिभिः ॥
śubhe nakṣatrayoge ca maṇḍapasya niveśanam । śaṅkhadundubhinirghoṣairmṛdaṅgapaṇavādibhiḥ ॥
NS 2.37 अनुष्टुप्
सर्वातोद्यैः प्रणुदितैः स्थापनं कार्यमेव तु ।उत्सार्याणि त्वनिष्टानि पाषण्ड्याश्रमिणस्तथा ॥
sarvātodyaiḥ praṇuditaiḥ sthāpanaṃ kāryameva tu ।utsāryāṇi tvaniṣṭāni pāṣaṇḍyāśramiṇastathā ॥
NS 2.38 अनुष्टुप्
काषायवसनाश्चैव विकलाश्चैअव ये नराः । निशायां च बलिः कार्या नानाभोजनसंयुतः ॥
kāṣāyavasanāścaiva vikalāścaiava ye narāḥ । niśāyāṃ ca baliḥ kāryā nānābhojanasaṃyutaḥ ॥
NS 2.39 अनुष्टुप्
गन्धपुष्पफलोपेता दिशो दश समाश्रितः । पूर्वेण शुक्लान्नयुतो नीलान्नो दक्षिणेन च ॥
gandhapuṣpaphalopetā diśo daśa samāśritaḥ । pūrveṇa śuklānnayuto nīlānno dakṣiṇena ca ॥
NS 2.40 अनुष्टुप्
पश्चिमेन बलिः पीतो रक्तश्चैवोत्तरेण तु । यादृशं दिशि यस्यां तु दैवतं परिकल्पितम् ॥
paścimena baliḥ pīto raktaścaivottareṇa tu । yādṛśaṃ diśi yasyāṃ tu daivataṃ parikalpitam ॥
NS 2.41 अनुष्टुप्
तादृशस्तत्र दातव्यो बलिर्मन्त्रपुरस्कृतः । स्थापने ब्राह्मणेभ्यश्च दातव्यं घृतपायसम् ॥
tādṛśastatra dātavyo balirmantrapuraskṛtaḥ । sthāpane brāhmaṇebhyaśca dātavyaṃ ghṛtapāyasam ॥
NS 2.42 अनुष्टुप्
मधुपर्कस्तथा राज्ञे कर्तृभ्यश्च गुडौदनम् । नक्षत्रेण तु कर्तव्यं मूलेन स्थापनं बुधैः ॥
madhuparkastathā rājñe kartṛbhyaśca guḍaudanam । nakṣatreṇa tu kartavyaṃ mūlena sthāpanaṃ budhaiḥ ॥
NS 2.43 अनुष्टुप्
मुहूर्तेनानुकूलेन तिथ्या सुकरणेन च ।एवं तु स्थापनं कृत्वा भित्तिकर्म प्रयोजयेत् ॥
muhūrtenānukūlena tithyā sukaraṇena ca ।evaṃ tu sthāpanaṃ kṛtvā bhittikarma prayojayet ॥
NS 2.44 अनुष्टुप्
भित्तिकर्मणि निर्वृत्ते स्तम्भानां स्थापनं ततः । तिथिनक्षत्रयोगेन शुभेन करणेन च ॥
bhittikarmaṇi nirvṛtte stambhānāṃ sthāpanaṃ tataḥ । tithinakṣatrayogena śubhena karaṇena ca ॥
NS 2.45 अनुष्टुप्
स्तम्भानां स्थापनं कार्यं रोहिण्या श्रवणेन वा ।आचार्येण सुयुक्तेन त्रिरात्रोपोषितेन च ॥
stambhānāṃ sthāpanaṃ kāryaṃ rohiṇyā śravaṇena vā ।ācāryeṇa suyuktena trirātropoṣitena ca ॥
NS 2.46 अनुष्टुप्
स्तम्भानां स्थापनं कार्यं प्राप्ते सूर्योदये शुभे । प्रथमे ब्राह्मणस्तम्भे सर्पिस्सर्षपसंस्कृतः ॥
stambhānāṃ sthāpanaṃ kāryaṃ prāpte sūryodaye śubhe । prathame brāhmaṇastambhe sarpissarṣapasaṃskṛtaḥ ॥
NS 2.47 अनुष्टुप्
सर्वशुक्लो विधिः कार्यो दद्यात्पायसमेव च । ततश्च क्षत्रियस्तम्भे वस्त्रमाल्यानुलेपनम् ॥
sarvaśuklo vidhiḥ kāryo dadyātpāyasameva ca । tataśca kṣatriyastambhe vastramālyānulepanam ॥
NS 2.48 अनुष्टुप्
सर्व रक्तं प्रदातव्यं द्विजेभ्यश्च गुडौदनम् । वैश्यस्तम्भे विधिः कार्यो दिग्भागे पश्चिमोत्तरे ॥
sarva raktaṃ pradātavyaṃ dvijebhyaśca guḍaudanam । vaiśyastambhe vidhiḥ kāryo digbhāge paścimottare ॥
NS 2.49 अनुष्टुप्
सर्वं प्रीतं प्रदातव्यं द्विजेभ्यश्च घृतौदनम् । शूद्रस्तम्भे विधिः कार्यः सम्यक्पूर्वोत्तराश्रये ॥
sarvaṃ prītaṃ pradātavyaṃ dvijebhyaśca ghṛtaudanam । śūdrastambhe vidhiḥ kāryaḥ samyakpūrvottarāśraye ॥
NS 2.50 अनुष्टुप्
नीलप्रायं प्रयत्नेन कूसरं च द्विजाशनम् । पूर्वोक्तब्राह्मणस्तम्भे शुक्लमाल्यानुलेपने ॥
nīlaprāyaṃ prayatnena kūsaraṃ ca dvijāśanam । pūrvoktabrāhmaṇastambhe śuklamālyānulepane ॥
NS 2.51 अनुष्टुप्
निक्षिपेत्कनकं मूले कर्णाभरणसंश्रयम् । ताम्रं चाधः प्रदातव्यं स्तम्भे क्षत्रियसंज्ञके ॥
nikṣipetkanakaṃ mūle karṇābharaṇasaṃśrayam । tāmraṃ cādhaḥ pradātavyaṃ stambhe kṣatriyasaṃjñake ॥
NS 2.52 अनुष्टुप्
वैश्यस्तम्भस्य मूले तु रजतं सम्प्रदापयेत् । शूद्रस्तम्भस्य मूले तु दद्यादायसमेव च ॥
vaiśyastambhasya mūle tu rajataṃ sampradāpayet । śūdrastambhasya mūle tu dadyādāyasameva ca ॥
NS 2.53 अनुष्टुप्
सर्वेष्वेव तु निक्षेप्यं स्तम्भमूलेषु काञ्चनम् । स्वस्तिपुण्याहघोषेण जयशब्देन चैव हि ॥
sarveṣveva tu nikṣepyaṃ stambhamūleṣu kāñcanam । svastipuṇyāhaghoṣeṇa jayaśabdena caiva hi ॥
NS 2.54 अनुष्टुप्
स्तम्भानां स्थापनं कार्यं पुष्पमालापुरस्कृतम् । रत्नदानैः सगोदानैर्वस्त्रदानैरनल्पकैः ॥
stambhānāṃ sthāpanaṃ kāryaṃ puṣpamālāpuraskṛtam । ratnadānaiḥ sagodānairvastradānairanalpakaiḥ ॥
← Previous (Ch. 1) Full Table of Contents Next (Ch. 3) →