Skip to main content
Search
NS
Nāṭyaśāstra • Chapter 01

Nāṭyotpatti

नाट्योत्पत्तिः

Narrates the divine creation of Nāṭyaveda (the Fifth Veda) by Lord Brahmā uniting Pāṭhya from Ṛgveda, Gāna from Sāmaveda, Abhinaya from Yajurveda, and Rasa from Atharvaveda, the Jarjara staff, and the inaugural celestial performance.

Total: 134 Verses • Citations: NS 1.1–134 • 31 Lexicon Terms • Page 3 of 5 (Verses 30 shown)
NS 1.58 अनुष्टुप्
सम्फेटविद्रवकृता च्छेद्यभेद्याहवाल्मिका । ततो ब्रह्मादयो देवाः प्रयोगपरितोषिताः ॥
sampheṭavidravakṛtā cchedyabhedyāhavālmikā । tato brahmādayo devāḥ prayogaparitoṣitāḥ ॥
NS 1.59 अनुष्टुप्
प्रददुर्मत्सुतेभ्यस्तु सर्वोपकरणानि वै । प्रीतस्तु प्रथमं शक्रो दत्तवान्स्वं ध्वजं शुभम् ॥
pradadurmatsutebhyastu sarvopakaraṇāni vai । prītastu prathamaṃ śakro dattavānsvaṃ dhvajaṃ śubham ॥
NS 1.60 अनुष्टुप्
ब्रह्मा कुटिलकं चैव भृङ्गारं वरुणः शुभम् । सूर्यश्छत्रं शिवस्सिद्धिं वायुर्व्यजनमेव च ॥
brahmā kuṭilakaṃ caiva bhṛṅgāraṃ varuṇaḥ śubham । sūryaśchatraṃ śivassiddhiṃ vāyurvyajanameva ca ॥
NS 1.61 अनुष्टुप्
विष्णुः सिंहासनं चैव कुबेरो मुकुटं तथा । श्राव्यत्वं प्रेक्षणीयस्य ददौ देवी सरस्वती ॥
viṣṇuḥ siṃhāsanaṃ caiva kubero mukuṭaṃ tathā । śrāvyatvaṃ prekṣaṇīyasya dadau devī sarasvatī ॥
NS 1.62 अनुष्टुप्
शेषा ये देवगन्धर्वा यक्षराक्षसपन्नगाः । तस्मिन्सदस्यभिप्रेतान्नानाजातिगुणाश्रयान् ॥
śeṣā ye devagandharvā yakṣarākṣasapannagāḥ । tasminsadasyabhipretānnānājātiguṇāśrayān ॥
NS 1.63 अनुष्टुप्
अंशांशैर्भाषितं भावान्रसान्रूपं बलं तथा । दत्तवन्तः प्रहृष्टास्ते मत्सुतेभ्यो दिवौकसः ॥
aṃśāṃśairbhāṣitaṃ bhāvānrasānrūpaṃ balaṃ tathā । dattavantaḥ prahṛṣṭāste matsutebhyo divaukasaḥ ॥
NS 1.64 अनुष्टुप्
एवं प्रयोगे प्रारब्धे दैत्यदानवनाशने ।अभवन्क्षुभिताः सर्वे दैत्या ये तत्र सङ्गताः ॥
evaṃ prayoge prārabdhe daityadānavanāśane ।abhavankṣubhitāḥ sarve daityā ye tatra saṅgatāḥ ॥
NS 1.65 अनुष्टुप्
विरूपाक्ष पुरोगांश्च विघ्नान्प्रोत्साह्य तेऽब्रुवन् । न क्षमिष्यामहे नाट्यमेतदागम्यतामिति ॥
virūpākṣa purogāṃśca vighnānprotsāhya te'bruvan । na kṣamiṣyāmahe nāṭyametadāgamyatāmiti ॥
NS 1.66 अनुष्टुप्
ततस्तैरसुरैः सार्धं विघ्ना मायामुपाश्रिताः । वाचश्चेष्टां स्मृतिं चैव स्तम्भयन्ति स्म नृत्यताम् ॥
tatastairasuraiḥ sārdhaṃ vighnā māyāmupāśritāḥ । vācaśceṣṭāṃ smṛtiṃ caiva stambhayanti sma nṛtyatām ॥
NS 1.67 अनुष्टुप्
तथा विध्वंसनं दृष्ट्वा सूत्रधारस्य देवराट् । कस्मात्प्रयोगवैषम्यमित्युक्त्वा ध्यानमाविशत् ॥
tathā vidhvaṃsanaṃ dṛṣṭvā sūtradhārasya devarāṭ । kasmātprayogavaiṣamyamityuktvā dhyānamāviśat ॥
NS 1.68 अनुष्टुप्
अथापश्यत्सदो विघ्नैः समन्ताद्परिवारितम् । सहेतरैः सूत्रधारं नष्टसंज्ञं जडीकृतम् ॥
athāpaśyatsado vighnaiḥ samantādparivāritam । sahetaraiḥ sūtradhāraṃ naṣṭasaṃjñaṃ jaḍīkṛtam ॥
NS 1.69 अनुष्टुप्
उत्थाय त्वरितं शक्रं गृहीत्वा ध्वजमुत्तमम् । सर्वरत्नोज्ज्वलतनुः किञ्चिदुद्वृत लोचनः ॥
utthāya tvaritaṃ śakraṃ gṛhītvā dhvajamuttamam । sarvaratnojjvalatanuḥ kiñcidudvṛta locanaḥ ॥
NS 1.70 अनुष्टुप्
रङ्गपीठगतान्विघ्नानसुरांश्चैव देवराट् । जर्जरीकृतदेहांस्तानकरोज्जर्जरेण सः ॥
raṅgapīṭhagatānvighnānasurāṃścaiva devarāṭ । jarjarīkṛtadehāṃstānakarojjarjareṇa saḥ ॥
NS 1.71 अनुष्टुप्
निहतेषु च सर्वेषुअ विघ्नेषु सह दानवैः । संप्रहृष्य ततो वाक्यमाहुः सर्वे दिवौकसः ॥
nihateṣu ca sarveṣua vighneṣu saha dānavaiḥ । saṃprahṛṣya tato vākyamāhuḥ sarve divaukasaḥ ॥
NS 1.72 अनुष्टुप्
अहो प्रहरणं दिव्यमिदमासादितं त्वया । जर्जरीकृतसर्वाङ्गा येनैते दानवाः कृताः ॥
aho praharaṇaṃ divyamidamāsāditaṃ tvayā । jarjarīkṛtasarvāṅgā yenaite dānavāḥ kṛtāḥ ॥
NS 1.73 अनुष्टुप्
यस्मादनेन ते विघ्नाः सासुरा जर्जरीकृताः । तस्माज्जर्जर एवेति नामतोऽयं भविष्यति ॥
yasmādanena te vighnāḥ sāsurā jarjarīkṛtāḥ । tasmājjarjara eveti nāmato'yaṃ bhaviṣyati ॥
NS 1.74 अनुष्टुप्
शेषा ये चैव हिंसार्थमुपयास्यन्ति हिंसकाः । दृष्ट्वैव जर्जरं तेऽपि गमिष्यन्त्येवमेव तु ॥
śeṣā ye caiva hiṃsārthamupayāsyanti hiṃsakāḥ । dṛṣṭvaiva jarjaraṃ te'pi gamiṣyantyevameva tu ॥
NS 1.75 अनुष्टुप्
एवमेवास्त्विति ततः शक्रः प्रोवाच तान्सुरान् । रक्षाभूतश्च सर्वेषां भविष्यत्येष जर्जरः ॥
evamevāstviti tataḥ śakraḥ provāca tānsurān । rakṣābhūtaśca sarveṣāṃ bhaviṣyatyeṣa jarjaraḥ ॥
NS 1.76 अनुष्टुप्
प्रयोगे प्रस्तुते ह्येवं स्फीते शक्रमहे पुनः । त्रासं सञ्जनयन्ति स्म विघ्नाः शेषास्तु नृत्यताम् ॥
prayoge prastute hyevaṃ sphīte śakramahe punaḥ । trāsaṃ sañjanayanti sma vighnāḥ śeṣāstu nṛtyatām ॥
NS 1.77 अनुष्टुप्
दृष्ट्वा तेषां व्यवसितं दैत्यानां विप्रकारजम् ।उपस्थितोऽहं ब्रह्माणं सुतैः सर्वैः समन्वितः ॥
dṛṣṭvā teṣāṃ vyavasitaṃ daityānāṃ viprakārajam ।upasthito'haṃ brahmāṇaṃ sutaiḥ sarvaiḥ samanvitaḥ ॥
NS 1.78 अनुष्टुप्
निश्चिता भगवन्विघ्ना नाट्यस्यास्य विनाशने ।अस्य रक्षाविधिं सम्यगाज्ञापय सुरेश्वर ॥
niścitā bhagavanvighnā nāṭyasyāsya vināśane ।asya rakṣāvidhiṃ samyagājñāpaya sureśvara ॥
NS 1.79 अनुष्टुप्
ततश्च विश्वकर्माणं ब्रह्मोवाच प्रयत्नतः । कुरु लक्षणसंपन्नं नाट्यवेश्म महामते ॥
tataśca viśvakarmāṇaṃ brahmovāca prayatnataḥ । kuru lakṣaṇasaṃpannaṃ nāṭyaveśma mahāmate ॥
NS 1.80 अनुष्टुप्
ततोऽचिरेण कालेन विश्वकर्मा महच्छुभम् । सर्वलक्षणसम्पन्नं कृत्वा नाट्यगृहं तु सः ॥
tato'cireṇa kālena viśvakarmā mahacchubham । sarvalakṣaṇasampannaṃ kṛtvā nāṭyagṛhaṃ tu saḥ ॥
NS 1.81 अनुष्टुप्
प्रोक्तवान्द्रुहिणं गत्वा सभायान्तु कृताञ्जलीः । सज्जं नाट्यगृहं देव तदेवेक्षितुमर्हसि ॥
proktavāndruhiṇaṃ gatvā sabhāyāntu kṛtāñjalīḥ । sajjaṃ nāṭyagṛhaṃ deva tadevekṣitumarhasi ॥
NS 1.82 अनुष्टुप्
ततः सह महेन्द्रेण सुरैः सर्वैश्च सेतरैः ।आगतस्त्वरितो दृष्टुं द्रुहिणो नाट्यमण्डपम् ॥
tataḥ saha mahendreṇa suraiḥ sarvaiśca setaraiḥ ।āgatastvarito dṛṣṭuṃ druhiṇo nāṭyamaṇḍapam ॥
NS 1.83 अनुष्टुप्
दृष्ट्वा नाट्यगृहं ब्रह्मा प्राह सर्वान्सुरांस्ततः ।अंशभागैर्भवद्भिस्तु रक्ष्योऽयं नाट्यमण्डपः ॥
dṛṣṭvā nāṭyagṛhaṃ brahmā prāha sarvānsurāṃstataḥ ।aṃśabhāgairbhavadbhistu rakṣyo'yaṃ nāṭyamaṇḍapaḥ ॥
NS 1.84 अनुष्टुप्
रक्षणे मण्डपस्याथ विनियुक्तस्तु चन्द्रमाः । लोकपालास्तथा दिक्षु विदिक्ष्वपि च मारुताः ॥
rakṣaṇe maṇḍapasyātha viniyuktastu candramāḥ । lokapālāstathā dikṣu vidikṣvapi ca mārutāḥ ॥
NS 1.85 अनुष्टुप्
नेपथ्यभूमौ मित्रस्तु निक्षिप्तो वरुणोऽम्बरे । वेदिकारक्षणे वह्निर्भाण्डे सर्वदिवौकसः ॥
nepathyabhūmau mitrastu nikṣipto varuṇo'mbare । vedikārakṣaṇe vahnirbhāṇḍe sarvadivaukasaḥ ॥
NS 1.86 अनुष्टुप्
वर्णाश्चत्वार एवाथ स्तम्भेषु विनियोजिताः ।आदित्याश्चैव रुद्राश्च स्थिताः स्तम्भान्तरेश्वथ ॥
varṇāścatvāra evātha stambheṣu viniyojitāḥ ।ādityāścaiva rudrāśca sthitāḥ stambhāntareśvatha ॥
NS 1.87 अनुष्टुप्
धारणीश्वथ भूतानि शालास्वप्सरस्तथा । सर्ववेश्मसु यक्षिण्यो महीपृष्ठे महोदधिः ॥
dhāraṇīśvatha bhūtāni śālāsvapsarastathā । sarvaveśmasu yakṣiṇyo mahīpṛṣṭhe mahodadhiḥ ॥
Full Table of Contents Next (Ch. 2) →