Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 98

Ādiparva Adhyāya 98

आदिपर्व • अध्यायः 98

Ādiparva Adhyāya 98 of the classical Mahābhārata with 34 verses.

Total: 34 Verses • Citations: MBh 1.98.1–34 • 250 Lexicon Terms
जामदग्न्येन रामेण पितुर्वधममृष्यता । क्रुद्धेन च महाभागे हैहयाधिपतिर्हतः । शतानि दश बाहूनां निकृत्तान्यर्जुनस्य वै ॥
पुनश्च धनुरादाय महास्त्राणि प्रमुञ्चता । निर्दग्धं क्षत्रमसकृद्रथेन जयता महीम् ॥
एवमुच्चावचैरस्त्रैर्भार्गवेण महात्मना । त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा ॥
ततः संभूय सर्वाभिः क्षत्रियाभिः समन्ततः । उत्पादितान्यपत्यानि ब्राह्मणैर्नियतात्मभिः ॥
पाणिग्राहस्य तनय इति वेदेषु निश्चितम् । धर्मं मनसि संस्थाप्य ब्राह्मणांस्ताः समभ्ययुः । लोकेऽप्याचरितो दृष्टः क्षत्रियाणां पुनर्भवः ॥
अथोतथ्य इति ख्यात आसीद्धीमानृषिः पुरा । ममता नाम तस्यासीद्भार्या परमसंमता ॥
उतथ्यस्य यवीयांस्तु पुरोधास्त्रिदिवौकसाम् । बृहस्पतिर्बृहत्तेजा ममतां सोऽन्वपद्यत ॥
उवाच ममता तं तु देवरं वदतां वरम् । अन्तर्वत्नी अहं भ्रात्रा ज्येष्ठेनारम्यतामिति ॥
अयं च मे महाभाग कुक्षावेव बृहस्पते । औतथ्यो वेदमत्रैव षडङ्गं प्रत्यधीयत ॥
अमोघरेतास्त्वं चापि नूनं भवितुमर्हसि । तस्मादेवंगतेऽद्य त्वमुपारमितुमर्हसि ॥
एवमुक्तस्तया सम्यग्बृहत्तेजा बृहस्पतिः । कामात्मानं तदात्मानं न शशाक नियच्छितुम् ॥
संबभूव ततः कामी तया सार्धमकामया । उत्सृजन्तं तु तं रेतः स गर्भस्थोऽभ्यभाषत ॥
भोस्तात कन्यस वदे द्वयोर्नास्त्यत्र संभवः । अमोघशुक्रश्च भवान्पूर्वं चाहमिहागतः ॥
शशाप तं ततः क्रुद्ध एवमुक्तो बृहस्पतिः । उतथ्यपुत्रं गर्भस्थं निर्भर्त्स्य भगवानृषिः ॥
यस्मात्त्वमीदृशे काले सर्वभूतेप्सिते सति । एवमात्थ वचस्तस्मात्तमो दीर्घं प्रवेक्ष्यसि ॥
स वै दीर्घतमा नाम शापादृषिरजायत । बृहस्पतेर्बृहत्कीर्तेर्बृहस्पतिरिवौजसा ॥
स पुत्राञ्जनयामास गौतमादीन्महायशाः । ऋषेरुतथ्यस्य तदा संतानकुलवृद्धये ॥
लोभमोहाभिभूतास्ते पुत्रास्तं गौतमादयः । काष्ठे समुद्गे प्रक्षिप्य गङ्गायां समवासृजन् ॥
न स्यादन्धश्च वृद्धश्च भर्तव्योऽयमिति स्म ते । चिन्तयित्वा ततः क्रूराः प्रतिजग्मुरथो गृहान् ॥
सोऽनुस्रोतस्तदा राजन्प्लवमान ऋषिस्ततः । जगाम सुबहून्देशानन्धस्तेनोडुपेन ह ॥
तं तु राजा बलिर्नाम सर्वधर्मविशारदः । अपश्यन्मज्जनगतः स्रोतसाभ्याशमागतम् ॥
जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमः । ज्ञात्वा चैनं स वव्रेऽथ पुत्रार्थं मनुजर्षभ ॥
संतानार्थं महाभाग भार्यासु मम मानद । पुत्रान्धर्मार्थकुशलानुत्पादयितुमर्हसि ॥
एवमुक्तः स तेजस्वी तं तथेत्युक्तवानृषिः । तस्मै स राजा स्वां भार्यां सुदेष्णां प्राहिणोत्तदा ॥
अन्धं वृद्धं च तं मत्वा न सा देवी जगाम ह । स्वां तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत्तदा ॥
तस्यां काक्षीवदादीन्स शूद्रयोनावृषिर्वशी । जनयामास धर्मात्मा पुत्रानेकादशैव तु ॥
काक्षीवदादीन्पुत्रांस्तान्दृष्ट्वा सर्वानधीयतः । उवाच तमृषिं राजा ममैत इति वीर्यवान् ॥
नेत्युवाच महर्षिस्तं ममैवैत इति ब्रुवन् । शूद्रयोनौ मया हीमे जाताः काक्षीवदादयः ॥
अन्धं वृद्धं च मां मत्वा सुदेष्णा महिषी तव । अवमन्य ददौ मूढा शूद्रां धात्रेयिकां हि मे ॥
ततः प्रसादयामास पुनस्तमृषिसत्तमम् । बलिः सुदेष्णां भार्यां च तस्मै तां प्राहिणोत्पुनः ॥
तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीमथाब्रवीत् । भविष्यति कुमारस्ते तेजस्वी सत्यवागिति ॥
तत्राङ्गो नाम राजर्षिः सुदेष्णायामजायत । एवमन्ये महेष्वासा ब्राह्मणैः क्षत्रिया भुवि ॥
जाताः परमधर्मज्ञा वीर्यवन्तो महाबलाः । एतच्छ्रुत्वा त्वमप्यत्र मातः कुरु यथेप्सितम् ॥
← Previous (Ch. 97) Full Table of Contents Next (Ch. 99) →