Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 99

Ādiparva Adhyāya 99

आदिपर्व • अध्यायः 99

Ādiparva Adhyāya 99 of the classical Mahābhārata with 50 verses.

Total: 50 Verses • Citations: MBh 1.99.1–50 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
पुनर्भरतवंशस्य हेतुं संतानवृद्धये । वक्ष्यामि नियतं मातस्तन्मे निगदतः शृणु ॥
ब्राह्मणो गुणवान्कश्चिद्धनेनोपनिमन्त्र्यताम् । विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत्प्रजाः ॥
ततः सत्यवती भीष्मं वाचा संसज्जमानया । विहसन्तीव सव्रीडमिदं वचनमब्रवीत् ॥
सत्यमेतन्महाबाहो यथा वदसि भारत । विश्वासात्ते प्रवक्ष्यामि संतानाय कुलस्य च । न ते शक्यमनाख्यातुमापद्धीयं तथाविधा ॥
त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं परा गतिः । तस्मान्निशम्य वाक्यं मे कुरुष्व यदनन्तरम् ॥
धर्मयुक्तस्य धर्मात्मन्पितुरासीत्तरी मम । सा कदाचिदहं तत्र गता प्रथमयौवने ॥
अथ धर्मभृतां श्रेष्ठः परमर्षिः पराशरः । आजगाम तरीं धीमांस्तरिष्यन्यमुनां नदीम् ॥
स तार्यमाणो यमुनां मामुपेत्याब्रवीत्तदा । सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं बहु ॥
तमहं शापभीता च पितुर्भीता च भारत । वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे ॥
अभिभूय स मां बालां तेजसा वशमानयत् । तमसा लोकमावृत्य नौगतामेव भारत ॥
मत्स्यगन्धो महानासीत्पुरा मम जुगुप्सितः । तमपास्य शुभं गन्धमिमं प्रादात्स मे मुनिः ॥
ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम् । द्वीपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि ॥
पाराशर्यो महायोगी स बभूव महानृषिः । कन्यापुत्रो मम पुरा द्वैपायन इति स्मृतः ॥
यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः । लोके व्यासत्वमापेदे कार्ष्ण्यात्कृष्णत्वमेव च ॥
सत्यवादी शमपरस्तपस्वी दग्धकिल्बिषः । स नियुक्तो मया व्यक्तं त्वया च अमितद्युते । भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनयिष्यति ॥
स हि मामुक्तवांस्तत्र स्मरेः कृत्येषु मामिति । तं स्मरिष्ये महाबाहो यदि भीष्म त्वमिच्छसि ॥
तव ह्यनुमते भीष्म नियतं स महातपाः । विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादयिष्यति ॥
महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत् । धर्ममर्थं च कामं च त्रीनेतान्योऽनुपश्यति ॥
अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम् । कामं कामानुबन्धं च विपरीतान्पृथक्पृथक् । यो विचिन्त्य धिया सम्यग्व्यवस्यति स बुद्धिमान् ॥
तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः । उक्तं भवत्या यच्छ्रेयः परमं रोचते मम ॥
ततस्तस्मिन्प्रतिज्ञाते भीष्मेण कुरुनन्दन । कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम् ॥
स वेदान्विब्रुवन्धीमान्मातुर्विज्ञाय चिन्तितम् । प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन ॥
तस्मै पूजां तदा दत्त्वा सुताय विधिपूर्वकम् । परिष्वज्य च बाहुभ्यां प्रस्नवैरभिषिच्य च । मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तम् ॥
तामद्भिः परिषिच्यार्तां महर्षिरभिवाद्य च । मातरं पूर्वजः पुत्रो व्यासो वचनमब्रवीत् ॥
भवत्या यदभिप्रेतं तदहं कर्तुमागतः । शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव ॥
तस्मै पूजां ततोऽकार्षीत्पुरोधाः परमर्षये । स च तां प्रतिजग्राह विधिवन्मन्त्रपूर्वकम् ॥
तमासनगतं माता पृष्ट्वा कुशलमव्ययम् । सत्यवत्यभिवीक्ष्यैनमुवाचेदमनन्तरम् ॥
मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे । तेषां पिता यथा स्वामी तथा माता न संशयः ॥
विधातृविहितः स त्वं यथा मे प्रथमः सुतः । विचित्रवीर्यो ब्रह्मर्षे तथा मेऽवरजः सुतः ॥
← Previous (Ch. 98) Full Table of Contents Next (Ch. 100) →