Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 92

Ādiparva Adhyāya 92

आदिपर्व • अध्यायः 92

Ādiparva Adhyāya 92 of the classical Mahābhārata with 56 verses.

Total: 56 Verses • Citations: MBh 1.92.1–56 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
ततः प्रतीपो राजा स सर्वभूतहिते रतः । निषसाद समा बह्वीर्गङ्गातीरगतो जपन् ॥
तस्य रूपगुणोपेता गङ्गा श्रीरिव रूपिणी । उत्तीर्य सलिलात्तस्माल्लोभनीयतमाकृतिः ॥
अधीयानस्य राजर्षेर्दिव्यरूपा मनस्विनी । दक्षिणं शालसंकाशमूरुं भेजे शुभानना ॥
प्रतीपस्तु महीपालस्तामुवाच मनस्विनीम् । करवाणि किं ते कल्याणि प्रियं यत्तेऽभिकाङ्क्षितम् ॥
त्वामहं कामये राजन्कुरुश्रेष्ठ भजस्व माम् । त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः ॥
नाहं परस्त्रियं कामाद्गच्छेयं वरवर्णिनि । न चासवर्णां कल्याणि धर्म्यं तद्विद्धि मे व्रतम् ॥
नाश्रेयस्यस्मि नागम्या न वक्तव्या च कर्हिचित् । भज मां भजमानां त्वं राजन्कन्यां वरस्त्रियम् ॥
मयातिवृत्तमेतत्ते यन्मां चोदयसि प्रियम् । अन्यथा प्रतिपन्नं मां नाशयेद्धर्मविप्लवः ॥
प्राप्य दक्षिणमूरुं मे त्वमाश्लिष्टा वराङ्गने । अपत्यानां स्नुषाणां च भीरु विद्ध्येतदासनम् ॥
सव्यतः कामिनीभागस्त्वया स च विवर्जितः । तस्मादहं नाचरिष्ये त्वयि कामं वराङ्गने ॥
स्नुषा मे भव कल्याणि पुत्रार्थे त्वां वृणोम्यहम् । स्नुषापक्षं हि वामोरु त्वमागम्य समाश्रिता ॥
एवमप्यस्तु धर्मज्ञ संयुज्येयं सुतेन ते । त्वद्भक्त्यैव भजिष्यामि प्रख्यातं भारतं कुलम् ॥
पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम् । गुणा न हि मया शक्या वक्तुं वर्षशतैरपि । कुलस्य ये वः प्रस्थितास्तत्साधुत्वमनुत्तमम् ॥
स मे नाभिजनज्ञः स्यादाचरेयं च यद्विभो । तत्सर्वमेव पुत्रस्ते न मीमांसेत कर्हिचित् ॥
एवं वसन्ती पुत्रे ते वर्धयिष्याम्यहं प्रियम् । पुत्रैः पुण्यैः प्रियैश्चापि स्वर्गं प्राप्स्यति ते सुतः ॥
तथेत्युक्त्वा तु सा राजंस्तत्रैवान्तरधीयत । पुत्रजन्म प्रतीक्षंस्तु स राजा तदधारयत् ॥
एतस्मिन्नेव काले तु प्रतीपः क्षत्रियर्षभः । तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन ॥
तयोः समभवत्पुत्रो वृद्धयोः स महाभिषः । शान्तस्य जज्ञे संतानस्तस्मादासीत्स शंतनुः ॥
संस्मरंश्चाक्षयाँल्लोकान्विजितान्स्वेन कर्मणा । पुण्यकर्मकृदेवासीच्छंतनुः कुरुसत्तम ॥
प्रतीपः शंतनुं पुत्रं यौवनस्थं ततोऽन्वशात् । पुरा मां स्त्री समभ्यागाच्छंतनो भूतये तव ॥
त्वामाव्रजेद्यदि रहः सा पुत्र वरवर्णिनी । कामयानाभिरूपाढ्या दिव्या स्त्री पुत्रकाम्यया । सा त्वया नानुयोक्तव्या कासि कस्यासि वाङ्गने ॥
यच्च कुर्यान्न तत्कार्यं प्रष्टव्या सा त्वयानघ । मन्नियोगाद्भजन्तीं तां भजेथा इत्युवाच तम् ॥
एवं संदिश्य तनयं प्रतीपः शंतनुं तदा । स्वे च राज्येऽभिषिच्यैनं वनं राजा विवेश ह ॥
स राजा शंतनुर्धीमान्ख्यातः पृथ्व्यां धनुर्धरः । बभूव मृगयाशीलः सततं वनगोचरः ॥
स मृगान्महिषांश्चैव विनिघ्नन्राजसत्तमः । गङ्गामनुचचारैकः सिद्धचारणसेविताम् ॥
स कदाचिन्महाराज ददर्श परमस्त्रियम् । जाज्वल्यमानां वपुषा साक्षात्पद्मामिव श्रियम् ॥
सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम् । सूक्ष्माम्बरधरामेकां पद्मोदरसमप्रभाम् ॥
तां दृष्ट्वा हृष्टरोमाभूद्विस्मितो रूपसंपदा । पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः ॥
सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम् । स्नेहादागतसौहार्दा नातृप्यत विलासिनी ॥
← Previous (Ch. 91) Full Table of Contents Next (Ch. 93) →