Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 91

Ādiparva Adhyāya 91

आदिपर्व • अध्यायः 91

Ādiparva Adhyāya 91 of the classical Mahābhārata with 23 verses.

Total: 23 Verses • Citations: MBh 1.91.1–23 • 250 Lexicon Terms
इक्ष्वाकुवंशप्रभवो राजासीत्पृथिवीपतिः । महाभिष इति ख्यातः सत्यवाक्सत्यविक्रमः ॥
सोऽश्वमेधसहस्रेण वाजपेयशतेन च । तोषयामास देवेन्द्रं स्वर्गं लेभे ततः प्रभुः ॥
ततः कदाचिद्ब्रह्माणमुपासां चक्रिरे सुराः । तत्र राजर्षयो आसन्स च राजा महाभिषः ॥
अथ गङ्गा सरिच्छ्रेष्ठा समुपायात्पितामहम् । तस्या वासः समुद्धूतं मारुतेन शशिप्रभम् ॥
ततोऽभवन्सुरगणाः सहसावाङ्मुखास्तदा । महाभिषस्तु राजर्षिरशङ्को दृष्टवान्नदीम् ॥
अपध्यातो भगवता ब्रह्मणा स महाभिषः । उक्तश्च जातो मर्त्येषु पुनर्लोकानवाप्स्यसि ॥
स चिन्तयित्वा नृपतिर्नृपान्सर्वांस्तपोधनान् । प्रतीपं रोचयामास पितरं भूरिवर्चसम् ॥
महाभिषं तु तं दृष्ट्वा नदी धैर्याच्च्युतं नृपम् । तमेव मनसाध्यायमुपावर्तत्सरिद्वरा ॥
सा तु विध्वस्तवपुषः कश्मलाभिहतौजसः । ददर्श पथि गच्छन्ती वसून्देवान्दिवौकसः ॥
तथारूपांश्च तान्दृष्ट्वा पप्रच्छ सरितां वरा । किमिदं नष्टरूपाः स्थ कच्चित्क्षेमं दिवौकसाम् ॥
तामूचुर्वसवो देवाः शप्ताः स्मो वै महानदि । अल्पेऽपराधे संरम्भाद्वसिष्ठेन महात्मना ॥
विमूढा हि वयं सर्वे प्रच्छन्नमृषिसत्तमम् । संध्यां वसिष्ठमासीनं तमत्यभिसृताः पुरा ॥
तेन कोपाद्वयं शप्ता योनौ संभवतेति ह । न शक्यमन्यथा कर्तुं यदुक्तं ब्रह्मवादिना ॥
त्वं तस्मान्मानुषी भूत्वा सूष्व पुत्रान्वसून्भुवि । न मानुषीणां जठरं प्रविशेमाशुभं वयम् ॥
इत्युक्ता तान्वसून्गङ्गा तथेत्युक्त्वाब्रवीदिदम् । मर्त्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति ॥
प्रतीपस्य सुतो राजा शंतनुर्नाम धार्मिकः । भविता मानुषे लोके स नः कर्ता भविष्यति ॥
ममाप्येवं मतं देवा यथावदत मानघाः । प्रियं तस्य करिष्यामि युष्माकं चैतदीप्सितम् ॥
जातान्कुमारान्स्वानप्सु प्रक्षेप्तुं वै त्वमर्हसि । यथा नचिरकालं नो निष्कृतिः स्यात्त्रिलोकगे ॥
एवमेतत्करिष्यामि पुत्रस्तस्य विधीयताम् । नास्य मोघः संगमः स्यात्पुत्रहेतोर्मया सह ॥
तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम् । तेन वीर्येण पुत्रस्ते भविता तस्य चेप्सितः ॥
न संपत्स्यति मर्त्येषु पुनस्तस्य तु संततिः । तस्मादपुत्रः पुत्रस्ते भविष्यति स वीर्यवान् ॥
एवं ते समयं कृत्वा गङ्गया वसवः सह । जग्मुः प्रहृष्टमनसो यथासंकल्पमञ्जसा ॥
← Previous (Ch. 90) Full Table of Contents Next (Ch. 92) →