Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 92

Ādiparva Adhyāya 92

आदिपर्व • अध्यायः 92

Ādiparva Adhyāya 92 of the classical Mahābhārata with 56 verses.

Total: 56 Verses • Citations: MBh 1.92.1–56 • 250 Lexicon Terms • Page 2 of 2 (Verses 26 shown)
तामुवाच ततो राजा सान्त्वयञ्श्लक्ष्णया गिरा । देवी वा दानवी वा त्वं गन्धर्वी यदि वाप्सराः ॥
यक्षी वा पन्नगी वापि मानुषी वा सुमध्यमे । या वा त्वं सुरगर्भाभे भार्या मे भव शोभने ॥
एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च । वसूनां समयं स्मृत्वा अभ्यगच्छदनिन्दिता ॥
उवाच चैव राज्ञः सा ह्लादयन्ती मनो गिरा । भविष्यामि महीपाल महिषी ते वशानुगा ॥
यत्तु कुर्यामहं राजञ्शुभं वा यदि वाशुभम् । न तद्वारयितव्यास्मि न वक्तव्या तथाप्रियम् ॥
एवं हि वर्तमानेऽहं त्वयि वत्स्यामि पार्थिव । वारिता विप्रियं चोक्ता त्यजेयं त्वामसंशयम् ॥
तथेति राज्ञा सा तूक्ता तदा भरतसत्तम । प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम् ॥
आसाद्य शंतनुस्तां च बुभुजे कामतो वशी । न प्रष्टव्येति मन्वानो न स तां किंचिदूचिवान् ॥
स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च । उपचारेण च रहस्तुतोष जगतीपतिः ॥
दिव्यरूपा हि सा देवी गङ्गा त्रिपथगा नदी । मानुषं विग्रहं श्रीमत्कृत्वा सा वरवर्णिनी ॥
भाग्योपनतकामस्य भार्येवोपस्थिताभवत् । शंतनो राजसिंहस्य देवराजसमद्युतेः ॥
संभोगस्नेहचातुर्यैर्हावलास्यैर्मनोहरैः । राजानं रमयामास यथा रेमे तथैव सः ॥
स राजा रतिसक्तत्वादुत्तमस्त्रीगुणैर्हृतः । संवत्सरानृतून्मासान्न बुबोध बहून्गतान् ॥
रममाणस्तया सार्धं यथाकामं जनेश्वरः । अष्टावजनयत्पुत्रांस्तस्याममरवर्णिनः ॥
जातं जातं च सा पुत्रं क्षिपत्यम्भसि भारत । प्रीणामि त्वाहमित्युक्त्वा गङ्गास्रोतस्यमज्जयत् ॥
तस्य तन्न प्रियं राज्ञः शंतनोरभवत्तदा । न च तां किंचनोवाच त्यागाद्भीतो महीपतिः ॥
अथ तामष्टमे पुत्रे जाते प्रहसितामिव । उवाच राजा दुःखार्तः परीप्सन्पुत्रमात्मनः ॥
मा वधीः कासि कस्यासि किं हिंससि सुतानिति । पुत्रघ्नि सुमहत्पापं मा प्रापस्तिष्ठ गर्हिते ॥
पुत्रकाम न ते हन्मि पुत्रं पुत्रवतां वर । जीर्णस्तु मम वासोऽयं यथा स समयः कृतः ॥
अहं गङ्गा जह्नुसुता महर्षिगणसेविता । देवकार्यार्थसिद्ध्यर्थमुषिटाहं त्वया सह ॥
अष्टेमे वसवो देवा महाभागा महौजसः । वसिष्ठशापदोषेण मानुषत्वमुपागताः ॥
तेषां जनयिता नान्यस्त्वदृते भुवि विद्यते । मद्विधा मानुषी धात्री न चैवास्तीह काचन ॥
तस्मात्तज्जननीहेतोर्मानुषत्वमुपागता । जनयित्वा वसूनष्टौ जिता लोकास्त्वयाक्षयाः ॥
देवानां समयस्त्वेष वसूनां संश्रुतो मया । जातं जातं मोक्षयिष्ये जन्मतो मानुषादिति ॥
तत्ते शापाद्विनिर्मुक्ता आपवस्य महात्मनः । स्वस्ति तेऽस्तु गमिष्यामि पुत्रं पाहि महाव्रतम् ॥
एष पर्यायवासो मे वसूनां संनिधौ कृतः । मत्प्रसूतं विजानीहि गङ्गादत्तमिमं सुतम् ॥
← Previous (Ch. 91) Full Table of Contents Next (Ch. 93) →