Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 89

Ādiparva Adhyāya 89

आदिपर्व • अध्यायः 89

Ādiparva Adhyāya 89 of the classical Mahābhārata with 56 verses.

Total: 56 Verses • Citations: MBh 1.89.1–56 • 250 Lexicon Terms • Page 2 of 2 (Verses 26 shown)
जनरूपिणयोर्ज्येष्ठमृक्षमाहुर्जनाधिपम् । ऋक्षात्संवरणो जज्ञे राजन्वंशकरस्तव ॥
आर्क्षे संवरणे राजन्प्रशासति वसुंधराम् । संक्षयः सुमहानासीत्प्रजानामिति शुश्रुमः ॥
व्यशीर्यत ततो राष्ट्रं क्षयैर्नानाविधैस्तथा । क्षुन्मृत्युभ्यामनावृष्ट्या व्याधिभिश्च समाहतम् । अभ्यघ्नन्भारतांश्चैव सपत्नानां बलानि च ॥
चालयन्वसुधां चैव बलेन चतुरङ्गिणा । अभ्ययात्तं च पाञ्चाल्यो विजित्य तरसा महीम् । अक्षौहिणीभिर्दशभिः स एनं समरेऽजयत् ॥
ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः । राजा संवरणस्तस्मात्पलायत महाभयात् ॥
सिन्धोर्नदस्य महतो निकुञ्जे न्यवसत्तदा । नदीविषयपर्यन्ते पर्वतस्य समीपतः । तत्रावसन्बहून्कालान्भारता दुर्गमाश्रिताः ॥
तेषां निवसतां तत्र सहस्रं परिवत्सरान् । अथाभ्यगच्छद्भरतान्वसिष्ठो भगवानृषिः ॥
तमागतं प्रयत्नेन प्रत्युद्गम्याभिवाद्य च । अर्घ्यमभ्याहरंस्तस्मै ते सर्वे भारतास्तदा । निवेद्य सर्वमृषये सत्कारेण सुवर्चसे ॥
तं समामष्टमीमुष्टं राजा वव्रे स्वयं तदा । पुरोहितो भवान्नोऽस्तु राज्याय प्रयतामहे । ओमित्येवं वसिष्ठोऽपि भारतान्प्रत्यपद्यत ॥
अथाभ्यषिञ्चत्साम्राज्ये सर्वक्षत्रस्य पौरवम् । विषाणभूतं सर्वस्यां पृथिव्यामिति नः श्रुतम् ॥
भरताध्युषितं पूर्वं सोऽध्यतिष्ठत्पुरोत्तमम् । पुनर्बलिभृतश्चैव चक्रे सर्वमहीक्षितः ॥
ततः स पृथिवीं प्राप्य पुनरीजे महाबलः । आजमीढो महायज्ञैर्बहुभिर्भूरिदक्षिणैः ॥
ततः संवरणात्सौरी सुषुवे तपती कुरुम् । राजत्वे तं प्रजाः सर्वा धर्मज्ञ इति वव्रिरे ॥
तस्य नाम्नाभिविख्यातं पृथिव्यां कुरुजाङ्गलम् । कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः ॥
अश्ववन्तमभिष्वन्तं तथा चित्ररथं मुनिम् । जनमेजयं च विख्यातं पुत्रांश्चास्यानुशुश्रुमः । पञ्चैतान्वाहिनी पुत्रान्व्यजायत मनस्विनी ॥
अभिष्वतः परिक्षित्तु शबलाश्वश्च वीर्यवान् । अभिराजो विराजश्च शल्मलश्च महाबलः ॥
उच्चैःश्रवा भद्रकारो जितारिश्चाष्टमः स्मृतः । एतेषामन्ववाये तु ख्यातास्ते कर्मजैर्गुणैः ॥
जनमेजयादयः सप्त तथैवान्ये महाबलाः । परिक्षितोऽभवन्पुत्राः सर्वे धर्मार्थकोविदाः ॥
कक्षसेनोग्रसेनौ च चित्रसेनश्च वीर्यवान् । इन्द्रसेनः सुषेणश्च भीमसेनश्च नामतः ॥
जनमेजयस्य तनया भुवि ख्याता महाबलाः । धृतराष्ट्रः प्रथमजः पाण्डुर्बाह्लीक एव च ॥
निषधश्च महातेजास्तथा जाम्बूनदो बली । कुण्डोदरः पदातिश्च वसातिश्चाष्टमः स्मृतः । सर्वे धर्मार्थकुशलाः सर्वे भूतहिते रताः ॥
धृतराष्ट्रोऽथ राजासीत्तस्य पुत्रोऽथ कुण्डिकः । हस्ती वितर्कः क्राथश्च कुण्डलश्चापि पञ्चमः । हविःश्रवास्तथेन्द्राभः सुमन्युश्चापराजितः ॥
प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ । देवापिः शंतनुश्चैव बाह्लीकश्च महारथः ॥
देवापिस्तु प्रवव्राज तेषां धर्मपरीप्सया । शंतनुश्च महीं लेभे बाह्लीकश्च महारथः ॥
भरतस्यान्वये जाताः सत्त्ववन्तो महारथाः । देवर्षिकल्पा नृपते बहवो राजसत्तमाः ॥
एवंविधाश्चाप्यपरे देवकल्पा महारथाः । जाता मनोरन्ववाये ऐलवंशविवर्धनाः ॥
← Previous (Ch. 88) Full Table of Contents Next (Ch. 90) →