Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 24

Araṇyakaparva (Vanaparva) Adhyāya 24

अरण्यकपर्व • अध्यायः 24

Araṇyakaparva (Vanaparva) Adhyāya 24 of the classical Mahābhārata with 17 verses.

Total: 17 Verses • Citations: MBh 3.24.1–17 • 250 Lexicon Terms
तस्मिन्दशार्हाधिपतौ प्रयाते; युधिष्ठिरो भीमसेनार्जुनौ च । यमौ च कृष्णा च पुरोहितश्च; रथान्महार्हान्परमाश्वयुक्तान् ॥
आस्थाय वीराः सहिता वनाय; प्रतस्थिरे भूतपतिप्रकाशाः । हिरण्यनिष्कान्वसनानि गाश्च; प्रदाय शिक्षाक्षरमन्त्रविद्भ्यः ॥
प्रेष्याः पुरो विंशतिरात्तशस्त्रा; धनूंषि वर्माणि शरांश्च पीतान् । मौर्वीश्च यन्त्राणि च सायकांश्च; सर्वे समादाय जघन्यमीयुः ॥
ततस्तु वासांसि च राजपुत्र्या; धात्र्यश्च दास्यश्च विभूषणं च । तदिन्द्रसेनस्त्वरितं प्रगृह्य; जघन्यमेवोपययौ रथेन ॥
ततः कुरुश्रेष्ठमुपेत्य पौराः; प्रदक्षिणं चक्रुरदीनसत्त्वाः । तं ब्राह्मणाश्चाभ्यवदन्प्रसन्ना; मुख्याश्च सर्वे कुरुजाङ्गलानाम् ॥
स चापि तानभ्यवदत्प्रसन्नः; सहैव तैर्भ्रातृभिर्धर्मराजः । तस्थौ च तत्राधिपतिर्महात्मा; दृष्ट्वा जनौघं कुरुजाङ्गलानाम् ॥
पितेव पुत्रेषु स तेषु भावं; चक्रे कुरूणामृषभो महात्मा । ते चापि तस्मिन्भरतप्रबर्हे; तदा बभूवुः पितरीव पुत्राः ॥
ततः समासाद्य महाजनौघाः; कुरुप्रवीरं परिवार्य तस्थुः । हा नाथ हा धर्म इति ब्रुवन्तो; ह्रिया च सर्वेऽश्रुमुखा बभूवुः ॥
वरः कुरूणामधिपः प्रजानां; पितेव पुत्रानपहाय चास्मान् । पौरानिमाञ्जानपदांश्च सर्वा;न्हित्वा प्रयातः क्व नु धर्मराजः ॥
धिग्धार्तराष्ट्रं सुनृशंसबुद्धिं; ससौबलं पापमतिं च कर्णम् । अनर्थमिच्छन्ति नरेन्द्र पापा; ये धर्मनित्यस्य सतस्तवोग्राः ॥
स्वयं निवेश्याप्रतिमं महात्मा; पुरं महद्देवपुरप्रकाशम् । शतक्रतुप्रस्थममोघकर्मा; हित्वा प्रयातः क्व नु धर्मराजः ॥
चकार यामप्रतिमां महात्मा; सभां मयो देवसभाप्रकाशाम् । तां देवगुप्तामिव देवमायां; हित्वा प्रयातः क्व नु धर्मराजः ॥
तान्धर्मकामार्थविदुत्तमौजा; बीभत्सुरुच्चैः सहितानुवाच । आदास्यते वासमिमं निरुष्य; वनेषु राजा द्विषतां यशांसि ॥
द्विजातिमुख्याः सहिताः पृथक्च; भवद्भिरासाद्य तपस्विनश्च । प्रसाद्य धर्मार्थविदश्च वाच्या; यथार्थसिद्धिः परमा भवेन्नः ॥
इत्येवमुक्ते वचनेऽर्जुनेन; ते ब्राह्मणाः सर्ववर्णाश्च राजन् । मुदाभ्यनन्दन्सहिताश्च चक्रुः; प्रदक्षिणं धर्मभृतां वरिष्ठम् ॥
आमन्त्र्य पार्थं च वृकोदरं च; धनंजयं याज्ञसेनीं यमौ च । प्रतस्थिरे राष्ट्रमपेतहर्षा; युधिष्ठिरेणानुमता यथास्वम् ॥
← Previous (Ch. 320) Full Table of Contents Next (Ch. 322) →