Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 13

Araṇyakaparva (Vanaparva) Adhyāya 13

अरण्यकपर्व • अध्यायः 13

Araṇyakaparva (Vanaparva) Adhyāya 13 of the classical Mahābhārata with 121 verses.

Total: 121 Verses • Citations: MBh 3.13.1–121 • 250 Lexicon Terms • Page 3 of 5 (Verses 30 shown)
शाश्वतोऽयं धर्मपथः सद्भिराचरितः सदा । यद्भार्यां परिरक्षन्ति भर्तारोऽल्पबला अपि ॥
भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता । प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः ॥
आत्मा हि जायते तस्यां तस्माज्जाया भवत्युत । भर्ता च भार्यया रक्ष्यः कथं जायान्ममोदरे ॥
नन्विमे शरणं प्राप्तान्न त्यजन्ति कदाचन । ते मां शरणमापन्नां नान्वपद्यन्त पाण्डवाः ॥
पञ्चेमे पञ्चभिर्जाताः कुमाराश्चामितौजसः । एतेषामप्यवेक्षार्थं त्रातव्यास्मि जनार्दन ॥
प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् । अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ॥
कनिष्ठाच्छ्रुतकर्मा तु सर्वे सत्यपराक्रमाः । प्रद्युम्नो यादृशः कृष्ण तादृशास्ते महारथाः ॥
नन्विमे धनुषि श्रेष्ठा अजेया युधि शात्रवैः । किमर्थं धार्तराष्ट्राणां सहन्ते दुर्बलीयसाम् ॥
अधर्मेण हृतं राज्यं सर्वे दासाः कृतास्तथा । सभायां परिकृष्टाहमेकवस्त्रा रजस्वला ॥
नाधिज्यमपि यच्छक्यं कर्तुमन्येन गाण्डिवम् । अन्यत्रार्जुनभीमाभ्यां त्वया वा मधुसूदन ॥
धिग्भीमसेनस्य बलं धिक्पार्थस्य च गाण्डिवम् । यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति ॥
य एतानाक्षिपद्राष्ट्रात्सह मात्राविहिंसकान् । अधीयानान्पुरा बालान्व्रतस्थान्मधुसूदन ॥
भोजने भीमसेनस्य पापः प्राक्षेपयद्विषम् । कालकूटं नवं तीक्ष्णं संभृतं लोमहर्षणम् ॥
तज्जीर्णमविकारेण सहान्नेन जनार्दन । सशेषत्वान्महाबाहो भीमस्य पुरुषोत्तम ॥
प्रमाणकोट्यां विश्वस्तं तथा सुप्तं वृकोदरम् । बद्ध्वैनं कृष्ण गङ्गायां प्रक्षिप्य पुनराव्रजत् ॥
यदा विबुद्धः कौन्तेयस्तदा संछिद्य बन्धनम् । उदतिष्ठन्महाबाहुर्भीमसेनो महाबलः ॥
आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत् । सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा ॥
प्रतिबुद्धस्तु कौन्तेयः सर्वान्सर्पानपोथयत् । सारथिं चास्य दयितमपहस्तेन जघ्निवान् ॥
पुनः सुप्तानुपाधाक्षीद्बालकान्वारणावते । शयानानार्यया सार्धं को नु तत्कर्तुमर्हति ॥
यत्रार्या रुदती भीता पाण्डवानिदमब्रवीत् । महद्व्यसनमापन्ना शिखिना परिवारिता ॥
हा हतास्मि कुतो न्वद्य भवेच्छान्तिरिहानलात् । अनाथा विनशिष्यामि बालकैः पुत्रकैः सह ॥
तत्र भीमो महाबाहुर्वायुवेगपराक्रमः । आर्यामाश्वासयामास भ्रातॄंश्चापि वृकोदरः ॥
वैनतेयो यथा पक्षी गरुडः पततां वरः । तथैवाभिपतिष्यामि भयं वो नेह विद्यते ॥
आर्यामङ्केन वामेन राजानं दक्षिणेन च । अंसयोश्च यमौ कृत्वा पृष्ठे बीभत्सुमेव च ॥
सहसोत्पत्य वेगेन सर्वानादाय वीर्यवान् । भ्रातॄनार्यां च बलवान्मोक्षयामास पावकात् ॥
ते रात्रौ प्रस्थिताः सर्वे मात्रा सह यशस्विनः । अभ्यगच्छन्महारण्यं हिडिम्बवनमन्तिकात् ॥
श्रान्ताः प्रसुप्तास्तत्रेमे मात्रा सह सुदुःखिताः । सुप्तांश्चैनानभ्यगच्छद्धिडिम्बा नाम राक्षसी ॥
भीमस्य पादौ कृत्वा तु स्व उत्सङ्गे ततो बलात् । पर्यमर्दत संहृष्टा कल्याणी मृदुपाणिना ॥
तामबुध्यदमेयात्मा बलवान्सत्यविक्रमः । पर्यपृच्छच्च तां भीमः किमिहेच्छस्यनिन्दिते ॥
तयोः श्रुत्वा तु कथितमागच्छद्राक्षसाधमः । भीमरूपो महानादान्विसृजन्भीमदर्शनः ॥
← Previous (Ch. 309) Full Table of Contents Next (Ch. 311) →