Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 13

Araṇyakaparva (Vanaparva) Adhyāya 13

अरण्यकपर्व • अध्यायः 13

Araṇyakaparva (Vanaparva) Adhyāya 13 of the classical Mahābhārata with 121 verses.

Total: 121 Verses • Citations: MBh 3.13.1–121 • 250 Lexicon Terms • Page 4 of 5 (Verses 30 shown)
केन सार्धं कथयसि आनयैनं ममान्तिकम् । हिडिम्बे भक्षयिष्यावो न चिरं कर्तुमर्हसि ॥
सा कृपासंगृहीतेन हृदयेन मनस्विनी । नैनमैच्छत्तदाख्यातुमनुक्रोशादनिन्दिता ॥
स नादान्विनदन्घोरान्राक्षसः पुरुषादकः । अभ्यद्रवत वेगेन भीमसेनं तदा किल ॥
तमभिद्रुत्य संक्रुद्धो वेगेन महता बली । अगृह्णात्पाणिना पाणिं भीमसेनस्य राक्षसः ॥
इन्द्राशनिसमस्पर्शं वज्रसंहननं दृढम् । संहत्य भीमसेनाय व्याक्षिपत्सहसा करम् ॥
गृहीतं पाणिना पाणिं भीमसेनोऽथ रक्षसा । नामृष्यत महाबाहुस्तत्राक्रुध्यद्वृकोदरः ॥
तत्रासीत्तुमुलं युद्धं भीमसेनहिडिम्बयोः । सर्वास्त्रविदुषोर्घोरं वृत्रवासवयोरिव ॥
हत्वा हिडिम्बं भीमोऽथ प्रस्थितो भ्रातृभिः सह । हिडिम्बामग्रतः कृत्वा यस्यां जातो घटोत्कचः ॥
ततश्च प्राद्रवन्सर्वे सह मात्रा यशस्विनः । एकचक्रामभिमुखाः संवृता ब्राह्मणव्रजैः ॥
प्रस्थाने व्यास एषां च मन्त्री प्रियहितोऽभवत् । ततोऽगच्छन्नेकचक्रां पाण्डवाः संशितव्रताः ॥
तत्राप्यासादयामासुर्बकं नाम महाबलम् । पुरुषादं प्रतिभयं हिडिम्बेनैव संमितम् ॥
तं चापि विनिहत्योग्रं भीमः प्रहरतां वरः । सहितो भ्रातृभिः सर्वैर्द्रुपदस्य पुरं ययौ ॥
लब्धाहमपि तत्रैव वसता सव्यसाचिना । यथा त्वया जिता कृष्ण रुक्मिणी भीष्मकात्मजा ॥
एवं सुयुद्धे पार्थेन जिताहं मधुसूदन । स्वयंवरे महत्कर्म कृत्वा नसुकरं परैः ॥
एवं क्लेशैः सुबहुभिः क्लिश्यमानाः सुदुःखिताः । निवसामार्यया हीनाः कृष्ण धौम्यपुरःसराः ॥
त इमे सिंहविक्रान्ता वीर्येणाभ्यधिकाः परैः । विहीनैः परिक्लिश्यन्तीं समुपेक्षन्त मां कथम् ॥
एतादृशानि दुःखानि सहन्ते दुर्बलीयसाम् । दीर्घकालं प्रदीप्तानि पापानां क्षुद्रकर्मणाम् ॥
कुले महति जातास्मि दिव्येन विधिना किल । पाण्डवानां प्रिया भार्या स्नुषा पाण्डोर्महात्मनः ॥
कचग्रहमनुप्राप्ता सास्मि कृष्ण वरा सती । पञ्चानामिन्द्रकल्पानां प्रेक्षतां मधुसूदन ॥
इत्युक्त्वा प्रारुदत्कृष्णा मुखं प्रच्छाद्य पाणिना । पद्मकोशप्रकाशेन मृदुना मृदुभाषिणी ॥
स्तनावपतितौ पीनौ सुजातौ शुभलक्षणौ । अभ्यवर्षत पाञ्चाली दुःखजैरश्रुबिन्दुभिः ॥
चक्षुषी परिमार्जन्ती निःश्वसन्ती पुनः पुनः । बाष्पपूर्णेन कण्ठेन क्रुद्धा वचनमब्रवीत् ॥
नैव मे पतयः सन्ति न पुत्रा मधुसूदन । न भ्रातरो न च पिता नैव त्वं न च बान्धवाः ॥
ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत् । न हि मे शाम्यते दुःखं कर्णो यत्प्राहसत्तदा ॥
अथैनामब्रवीत्कृष्णस्तस्मिन्वीरसमागमे । रोदिष्यन्ति स्त्रियो ह्येवं येषां क्रुद्धासि भामिनि ॥
बीभत्सुशरसंछन्नाञ्शोणितौघपरिप्लुतान् । निहताञ्जीवितं त्यक्त्वा शयानान्वसुधातले ॥
यत्समर्थं पाण्डवानां तत्करिष्यामि मा शुचः । सत्यं ते प्रतिजानामि राज्ञां राज्ञी भविष्यसि ॥
पतेद्द्यौर्हिमवाञ्शीर्येत्पृथिवी शकलीभवेत् । शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत् ॥
अहं द्रोणं हनिष्यामि शिखण्डी तु पितामहम् । दुर्योधनं भीमसेनः कर्णं हन्ता धनंजयः ॥
रामकृष्णौ व्यपाश्रित्य अजेयाः स्म शुचिस्मिते । अपि वृत्रहणा युद्धे किं पुनर्धृतराष्ट्रजैः ॥
← Previous (Ch. 309) Full Table of Contents Next (Ch. 311) →