Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 40

Araṇyakaparva (Vanaparva) Adhyāya 40

अरण्यकपर्व • अध्यायः 40

Araṇyakaparva (Vanaparva) Adhyāya 40 of the classical Mahābhārata with 62 verses.

Total: 62 Verses • Citations: MBh 3.40.1–62 • 250 Lexicon Terms • Page 2 of 3 (Verses 30 shown)
कोऽयं देवो भवेत्साक्षाद्रुद्रो यक्षः सुरेश्वरः । विद्यते हि गिरिश्रेष्ठे त्रिदशानां समागमः ॥
न हि मद्बाणजालानामुत्सृष्टानां सहस्रशः । शक्तोऽन्यः सहितुं वेगमृते देवं पिनाकिनम् ॥
देवो वा यदि वा यक्षो रुद्रादन्यो व्यवस्थितः । अहमेनं शरैस्तीक्ष्णैर्नयामि यमसादनम् ॥
ततो हृष्टमना जिष्णुर्नाराचान्मर्मभेदिनः । व्यसृजच्छतधा राजन्मयूखानिव भास्करः ॥
तान्प्रसन्नेन मनसा भगवाँल्लोकभावनः । शूलपाणिः प्रत्यगृह्णाच्छिलावर्षमिवाचलः ॥
क्षणेन क्षीणबाणोऽथ संवृत्तः फल्गुनस्तदा । वित्रासं च जगामाथ तं दृष्ट्वा शरसंक्षयम् ॥
चिन्तयामास जिष्णुस्तु भगवन्तं हुताशनम् । पुरस्तादक्षयौ दत्तौ तूणौ येनास्य खाण्डवे ॥
किं नु मोक्ष्यामि धनुषा यन्मे बाणाः क्षयं गताः । अयं च पुरुषः कोऽपि बाणान्ग्रसति सर्वशः ॥
अहमेनं धनुष्कोट्या शूलाग्रेणेव कुञ्जरम् । नयामि दण्डधारस्य यमस्य सदनं प्रति ॥
संप्रायुध्यद्धनुष्कोट्या कौन्तेयः परवीरहा । तदप्यस्य धनुर्दिव्यं जग्रास गिरिगोचरः ॥
ततोऽर्जुनो ग्रस्तधनुः खड्गपाणिरतिष्ठत । युद्धस्यान्तमभीप्सन्वै वेगेनाभिजगाम तम् ॥
तस्य मूर्ध्नि शितं खड्गमसक्तं पर्वतेष्वपि । मुमोच भुजवीर्येण विक्रम्य कुरुनन्दनः । तस्य मूर्धानमासाद्य पफालासिवरो हि सः ॥
ततो वृक्षैः शिलाभिश्च योधयामास फल्गुनः । यथा वृक्षान्महाकायः प्रत्यगृह्णादथो शिलाः ॥
किरातरूपी भगवांस्ततः पार्थो महाबलः । मुष्टिभिर्वज्रसंस्पर्शैर्धूममुत्पादयन्मुखे । प्रजहार दुराधर्षे किरातसमरूपिणि ॥
ततः शक्राशनिसमैर्मुष्टिभिर्भृशदारुणैः । किरातरूपी भगवानर्दयामास फल्गुनम् ॥
ततश्चटचटाशब्दः सुघोरः समजायत । पाण्डवस्य च मुष्टीनां किरातस्य च युध्यतः ॥
सुमुहूर्तं महद्युद्धमासीत्तल्लोमहर्षणम् । भुजप्रहारसंयुक्तं वृत्रवासवयोरिव ॥
जहाराथ ततो जिष्णुः किरातमुरसा बली । पाण्डवं च विचेष्टन्तं किरातोऽप्यहनद्बलात् ॥
तयोर्भुजविनिष्पेषात्संघर्षेणोरसोस्तथा । समजायत गात्रेषु पावकोऽङ्गारधूमवान् ॥
तत एनं महादेवः पीड्य गात्रैः सुपीडितम् । तेजसा व्याक्रमद्रोषाच्चेतस्तस्य विमोहयन् ॥
ततो निपीडितैर्गात्रैः पिण्डीकृत इवाबभौ । फल्गुनो गात्रसंरुद्धो देवदेवेन भारत ॥
निरुच्छ्वासोऽभवच्चैव संनिरुद्धो महात्मना । ततः पपात संमूढस्ततः प्रीतोऽभवद्भवः ॥
भो भो फल्गुन तुष्टोऽस्मि कर्मणाप्रतिमेन ते । शौर्येणानेन धृत्या च क्षत्रियो नास्ति ते समः ॥
समं तेजश्च वीर्यं च ममाद्य तव चानघ । प्रीतस्तेऽहं महाबाहो पश्य मां पुरुषर्षभ ॥
ददानि ते विशालाक्ष चक्षुः पूर्वऋषिर्भवान् । विजेष्यसि रणे शत्रूनपि सर्वान्दिवौकसः ॥
ततो देवं महादेवं गिरिशं शूलपाणिनम् । ददर्श फल्गुनस्तत्र सह देव्या महाद्युतिम् ॥
स जानुभ्यां महीं गत्वा शिरसा प्रणिपत्य च । प्रसादयामास हरं पार्थः परपुरंजयः ॥
कपर्दिन्सर्वभूतेश भगनेत्रनिपातन । व्यतिक्रमं मे भगवन्क्षन्तुमर्हसि शंकर ॥
भवगद्दर्शनाकाङ्क्षी प्राप्तोऽस्मीमं महागिरिम् । दयितं तव देवेश तापसालयमुत्तमम् ॥
प्रसादये त्वां भगवन्सर्वभूतनमस्कृत । न मे स्यादपराधोऽयं महादेवातिसाहसात् ॥
← Previous (Ch. 336) Full Table of Contents Next (Ch. 338) →